________________ शब्दालङ्कारदर्शनम् 223 सितुमागतान् विभाव्य परिसङ्ख्यानं निर्देश्यम् / सङ्ख्या च प्रतिपदमघोऽभोविन्यस्तानामङ्कानां मीलनेन पूर्ववदेव विनिर्देश्या / तत्र च प्रस्तारः सङ्ख्या च सङ्ख्यावतां पूर्वस्मिन्नभ्यासपराणां स्वत एव सुनिर्देश्या / नष्टोदिष्टे अपि सुखेन यथाऽवबुध्येते / तदर्थमुदाहरणं यथा-अष्टभ्यः पदेभ्यश्चतुर्योगेऽङ्गीक्रियमाणेऽशीत्यधिकपदशतोपेतसहस्रपरिकलिते प्रस्तारे कः पञ्चोत्तरशततमः प्रस्तार इति पृष्टे प्रस्ताराकादष्टभिः पदैर्भागे हृते प्रतिपदं 5 दशोत्तरं शतद्वयं यल्लब्धं तन्मध्यात् प्रथमपदभागवर्ती पञ्चोत्तरशततमो य एककोऽङ्कः प्रथमपादसूचकः प्रथमं विनिर्देश्यः / ततश्च शेषैः सप्तभिः पदैः प्राग्लब्धाद्भागे हृते प्रतिपदं लब्धायां त्रिंशतिपदत्रयसम्वन्धे त्रिंशस्त्रयानन्तरं चतुर्थ्यां त्रिंशति यः पञ्चदशः पञ्चकोऽङ्कः स विनिर्देश्यः / अनन्तरं षट्पदैस्त्रिंशतः प्रतिपदं पञ्चके लब्धे तस्यामेव त्रिंशतिपदद्वयसम्बन्धिपञ्चकद्वयसम्बन्धिपञ्चकद्वयस्याग्रतो ये पञ्चचतुष्कास्तेभ्यो यः पञ्चमश्चतुष्कः स विनि- 10 र्देश्यः / पश्चाच्च पञ्चभिः पदैः प्रतिपदं पञ्च काल्लब्धे एकके तस्मिन्नेव पञ्चके पदचतुष्टयसम्बन्धे द्विकत्रिकषट्कसप्तकानन्तरवर्ती योऽष्टकः स विनिर्देश्यः / एवं च पञ्चोत्तरशततमः प्रथमपञ्चमचतुर्थाष्टमपदप्रस्तारो विनिर्देश्यः / तथैकः पञ्च चत्वारोऽष्टावित्येष कतम इति पृष्टे, अये एककः प्रथममत्र विद्यते ततो द्विकादीनां सप्तानामङ्कानां भागेषु सप्तत्यधिकानि चतुर्दश शतानि यानि समायातान्यासते तानि परिहार्याण्येव प्रथमे हि दशोत्तरशतद्वये 15 एव प्रस्तारः परिज्ञेयः / ततोऽपि चतुर्थ्यामेव त्रिंशति पश्चकः सम्भवीति विकत्रिकचतुष्कषट्कसप्तकाऽष्टकसम्बन्धि त्रिंशत्षटकं परित्यज्य नवतरुपरि विंशत्युत्तरस्य शतस्य मध्ये एप प्रस्तारो विनिर्गेयः / तत्रापि तृतीय एव पञ्चके चतुष्कः कृतपदो भवतीति विकत्रिकषट्कसप्तकाऽष्टकानां पश्चपञ्चकान् विमुच्य शतस्योर्ध्वं पञ्चोत्तरशतस्यान्तरेष प्रस्तार उपदेश्यः / तत्रापि चाष्टकः पञ्चम एव प्रभवतीति विकत्रिकषट्कसप्तकांश्चतुरोऽङ्कानवधीर्य 20 एष प्रस्तारः पञ्चोत्तरशततमो विनिर्देश्यः / इत्थं च परार्धानां परामे॒ष्वपि नष्टोदिष्टे सुधीभिः स्वयमभ्यूह्ये / यच्च षष्टिपदानामर्थवाचित्वं पूर्वापरशब्दावयवत्त्वप्रदर्शनादिनाऽपि प्रपञ्चितं तत्राऽयमभिसन्धिः शास्त्रकर्तुः सम्भाव्यते-अर्थभेदेन हि शब्दा भियन्त इत्यशीत्यधिकपदशतादल्पानामपि पदानां संयोगे परार्द्धानां परार्द्धानि / बहूनां तु संयोगे परार्द्धानां यानि परार्द्धानि तेषामपि परार्द्धानां परार्द्धानि तेषामपि च परानां परा - 25 न्येवमपरिमितास्तर्णकश्लोकाः समुत्पद्यन्ताम् / अथवाऽशीत्यधिकपदशतात् कियद्भिः कियद्भिरेव च पदैः क्रमेणाऽपि योज्यमानैः कियतीष्वपि जातिषु प्रेत्येकमेव च तर्णकश्लोकानां परिगणनमभिमतं सिध्यत्विति / अस्मिन्नेव च पक्षे 'स्थितेनाऽऽगन्तुकं हत्याद्' इत्ययं न्यायो न्याय्यतर इति विद्वजनमनांस्यावर्जयितुमलं तदत्रापि पूर्ववदेव सर्वमुन्नेयमिति / 1. द्वितीयपक्षापेक्षया //