SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 184 कल्पलताविवेके सूचनगर्भा पतिव्रते इति दीप्तस्मितयोगिनी न त्वया मलिनितं शीलमिति सगद्गदाऽऽकाङ्क्षा / इति निराकाङ्क्षगद्गदोपहासगर्भा एषा हि कयाचिन्नापितानुरक्ता या कुलवध्वा दृष्टाविनयाया उपहस्यमानायाः प्रत्युपहासावेशगर्भा उक्तिः काकुप्रधानैव / तदेवं प्रकारोऽन्यो गुणीभूत5 व्यङग्य इत्यादिना पूर्वमुक्तेन, प्रधानेऽन्यत्र वाक्यार्थे इत्यादिना चापरस्य रसादेर्वाच्यस्य वा वाक्यार्थीभूतस्याङ्गं रसादि अनुरणनरूपं चेत्यपराङ्गम् , अर्थान्तरगतिः काकेत्यादिना काकाक्षिप्तं, आक्षिप्त एवालङ्कार इत्यत्राक्षिप्तैवशब्दयोर्व्यवच्छेद्यतया शब्दार्थशक्याक्षिप्तोऽपीत्यादिना च वाच्यसिद्वयङ्गम् , उपसर्जनीकृतस्वार्थाविति विशेषणव्यवच्छेद्यसङ्ग्राहकेण व्यङ्ग्यस्य यत्राप्राधान्यमित्यादिना अलङ्कारान्तरस्याऽपीत्यादिना यत्र प्रतीयमानोऽर्थ 10 इत्यादिना चाऽगूढापरपर्याय, वाच्यानुगतम् अस्फुटमप्रधान सन्दिग्धप्राधान्यं तुल्यप्राधान्य च व्यङ्ग्यमुपदर्शितमित्यष्टप्रकारो गुणीभूतव्यङ्ग्यः काव्यविशेष इति // अधुना सङ्कीण विषयं विभजति / " प्रभेदस्याऽस्य विषयो यश्च युक्त्या प्रतीयते / विधातव्या सहृदयैर्न तत्र ध्वनियोजना // " 15 सङ्कीणों हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः / तत्र यद्यस्य युक्तिसहायता तैदनेन व्यपदेशः कर्त्तव्यो न सर्वत्र ध्वनिरागिणा भवितव्यम् / यथा ‘पत्युःशिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् / सा रञ्जयित्वा चरणं कृताशीर्माल्येन तां निर्वचनं जघान // ' अनेनेति / अलक्तकोपरक्तस्य हि चन्द्रमसि परभागलाभः / अनवरतपादपतन20 प्रसादनैर्विना न पत्युझटिति यथेष्टाऽनुवर्त्तिन्या भाव्यमिति चोपदेशः / शिरोविधृता च या चन्द्रकला तामपि परिभवेति सपत्नीलोकाऽवजय उक्तः / निर्वचनमित्यनेन लज्जावहित्थहर्षेणूंसाध्वससौभाग्याऽभिमानप्रभृति यद्यपि ध्वन्यते तथाऽपि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रेतिपत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेति / यथा वा प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता / न किञ्चिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् // 25 1. कारिकाद्वयेन द्वितीया च कारिका वाच्यालङ्कारेति // 2. कारिकात्रयेण // 3. गुणीभूत.. व्यायेन // 4. अभिधेयस्य // 5. मौन //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy