________________ 182 . कल्पलताविवेके सादृश्यमुखेन तत्त्वप्रतिलम्भः, यथा रूपकोपमातुल्ययोगिताविदर्शनादिषु, तेषु गम्यमानधर्ममुखेनैव यत् सादृश्यं तदेव शोभाऽतिशयशालि भवतीति ते सर्वे चारुत्वाऽतिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव विषयः / समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानात् गुणीभूतव्यङ्ग्यता निर्विवादैव / तत्र च गुणीभूत5 व्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमो यथा व्याजस्तुतेः प्रेयोऽलङ्कारगर्भत्वे / केषाञ्चिदलङ्कारमात्रगर्भतायां नियमो यथा-ससन्देहादीनामौपम्यगर्भत्वे / केषाञ्चिदलङ्कारागां परस्परगर्भताऽपि सम्भवति यथा दीपकोपमयोः / तत्र दीपकमुपमागर्भत्वेन प्रसिद्धमुपमाऽपि काचिद्दीपकच्छायानुयायिनी यथा मालोपमा / तथा हि प्रभामहत्या शिखयेव दीप इत्यादौ विषये स्कुटैव दीपकच्छाया लक्ष्यते। यतस्तया स पूतश्च विभूषित10 श्वेत्येकेन दीपस्थानीयेन दीपनाद्दीपकमत्राऽनुप्रविष्टं प्रतीयमानतया / साधारणधर्माभिधानं ह्येतदुपमायां स्पष्टेनाऽभिधाप्रकारेणैव / तदेवं व्यङ्ग्यांशसंस्पर्शे सति चारुत्वाऽतिशययोगिनो रूपकादयोऽलङ्काराः सव एव गुगीभूतव्यङ्ग्यस्य मार्गः / तदयं ध्वनिनिष्यंदरूपो द्वितीयोऽपि महाकविविषयोऽतिरम गीयो लक्षणीयः सहृदयैः / सर्वथा नास्त्येव हृदय हारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शन सौभाग्यम् / तदिदं काव्य15 रहस्यं परमिति सूरिभिर्भावनीयम् / " मुख्या महाकविगिरामलङ्कतिभृतामपि / प्रतीयमानच्छायैषा भूषा लजेव योषिताम् // " मुख्या भूषेति सम्बन्धः / अलङ्कृतभृताम् अपिशब्दादलङ्कारशून्यानामपीत्यर्थः / प्रतीयमानकृता छाया शोभा सा च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् / अलङ्कार20 धारिणीनामपि च नायिकानां लजा मुख्यं भूषणम् / प्रतियमाना छायाऽन्तर्मदनोद्भेदज हृदयसौन्दर्यरूपा यया / लज्जा हि अन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भावंद्वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलइँस्यादर्शनात् / तथाहि-मान्मथविकारजुगोपयिषारूपलज्जाऽऽवेदकः कस्याऽपि कवेः कुरङ्गीवाङ्गानीत्यादिः श्लोकः / तथा प्रतीयमानस्य प्रियतमाभिलाषानुनाथनमानप्रभृतेः छाया कान्तिर्यया / शृङ्गाररसतरङ्गिणी 25 हि लज्जाऽवरुद्धा निर्भरतया तांस्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति 1. स्वरूप // 2. चाटुपर्यवसायित्वात्तस्याः // 3 अनेनोपमारूपकादयः स्वीकृताः / अनेन शब्देन उपमारूपकादयः स्वीकृताः ग. // 4. एवं काव्यस्यात्मा ध्वनिरिति निर्वाह्य उपसंहरति तदयमित्यादिन। सौभाग्यमित्यन्तेन // 5. प्रधानाप्रधानोभयरूपः // 6. सकलसत्कविकाव्योपनिषद्भूतं, न तु प्रतारणा मात्रमर्थवादरू मन्तव्यमिति तात्पर्यम् // 7. जम्मेव वीतरागाणाम् ग. // 8. कलङ्कादर्शनात् ग. // 9. व्याख्यानान्तरे //