________________ 150 कल्पलताविवेके शासनज्ञानमात्रेणैव” इत्यादि / एतच्च सर्वोदाहरणेष्वनुसतव्यम् / यथासंख्यध्वनिर्यथा अङ्कारतः कोरकितः पल्लवितः पुष्पितश्च सहकारः। अङ्करितः कोरकितः पल्लवितः पुष्पितश्च हृदि मदनः / / __ अत्र हि यथोदेशमनुदेशे यच्चारुत्वमनुरणनरूपं मदनविशेषणभूताङ्करितादिशब्दगतं तन्मदनसहकारयोस्तुल्ययोगितासमुच्चयलक्षगाद्वाच्यादतिरिच्यमानमालक्यते / . उपमेयोपमाध्वनिर्यथा निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो ___ नेत्रे दूरमनञ्जने पुलकिता तन्वी तथे वे ]यं तनुः / मिथ्यावादिनि दूति बान्धवजनस्याऽज्ञातपीडागमा वापी स्नातुमितो गताऽसि न पुनस्तस्याऽधमस्याऽन्तिकम् / / अत्र स इव त्वं त्वमिव सोऽप्यधम इति प्रतीयते / दीपकध्वनिर्यथा-मा भवन्तमनल इति / अत्र वाऽधिष्टेति गोप्यमानादेव दीपकाद त्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः / 15 अप्रस्तुतप्रशंसाध्वनिर्यथा-ढंढुल्लिंतु मरीहसीति / प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति भृङ्गस्याभिधायां प्रस्तुतत्वमेव / न चाऽऽमन्त्रणादप्रस्तुतत्वतिः / प्रत्युताऽऽमन्त्रणं तस्या मौग्ध्यविजृम्भितमिति अभिधया तावन्नाप्रस्तुतप्रशंसा / समाप्तायां पुनरभिधायां वाच्यार्थसौन्दर्यबलादन्याऽपदेशता ध्वन्यते / यत् स्वसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिाजप्रेमपरतया कृतकवैदग्ध्य20 लब्धप्रसिद्ध्यतिशयानि शम्भलीकण्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानि इतश्चाऽमुतश्च चर्यमाणं प्रियतममुपालभते / अपह्नुतिध्वनिर्यथा यत्कालागुरुपत्रभङ्गरचनावासैकसारायते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि / 1.- दे - ग. // 2. च्युतं चन्दनं न तु क्षालितम् / -तां ग / निर्मुष्टो न तु किश्चिन्मृष्टः // नितरां मृष्टो न तु. ग. // दूरमनञ्जने निकटे तु साञ्जने / - साजने अपि ग. // पुलकिता तन्वीत्युभयं विधेयं व्यङ्गयपक्षेऽधमपदं च व्यञ्जकम् / 3. ढंगुल्लिंतु मरीहसि कंटयकलियाई केयइवणाई / मालइकुसुमसरिच्छं भमर ! भमन्तो न पाविहिसि // ख. // 4. ज्ञानम् // 5. कालागुरुपत्रभङ्गरचनावास एवं आवसन्ती, कालागुरुपत्रभङ्गरचनेव यः एकः सारः स इवाचरतीत्यर्थः /