________________ [अथ गुणविवेचनो नाम द्वितीयः परिच्छेदः।] . अर्थात् इति / यद्यपि सम्भोगविप्रलम्भोभयरूपः शृङ्गारस्तथाऽपि गोबलीवईन्यायेनानन्तरविप्रलम्भप्रयोगसामर्थ्यात् शृङ्गारः सम्भोग इत्युक्तः। श्रव्यत्वम् इति। "श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते” इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्न युक्तमित्यर्थः / अङ्गीकृतम् इति / यथाशब्दप्रयोगात्तथेति लभ्यते / एताः इति भणयः। 5 सङ्घटनादयः इति / आदिग्रहणेन पश्चानुपूर्त्या मध्यवृत्त्यादयो गृह्यन्ते। अत्र हि इति / यदि हि क्रोधादिव्यञ्जकं वाच्यं भवेत्तत उपपद्येरन्नुद्धता रचनादयः / न चैतदनभिनेयार्थं येन स्वेच्छाप्यनुमन्येत रचनादीनाम् / किन्त्वभिनेयार्थमिदम् / न च तत्र रौद्रादावप्युद्धता रचनादयः उपपन्नाः / अतो वक्त्रौचित्यादेव रचनादीनामन्यथात्वमत्रेत्यर्थः / श्रव्यम् इति श्रुतिसुखम् / विषयः इति वाक्यलक्षगः / अनुप्रासविशेष एवायम् इति / श्रुतितुल्यत्वेन 10 यन्माधुर्यम् एष श्रुत्यनुप्रास एवेति भोजराजः। बन्धस्य इति संयुक्ताक्षरपरत्वादिधर्मविशिष्टस्येत्यर्थः / अविश्रान्त-इति / अविश्रान्तस्थानकरणव्यापारगोचरः समासो दीर्घसमास इत्यर्थः / स एव विषयो यस्य गाढत्वस्य तत्तथा / प्रथमद्वितीयैः इति / प्रथमाश्च द्वितीयाश्च प्रथमद्वितीयास्तैर्हेतुभूतैरित्यर्थः / हेतौ तृतीया। हेतुश्च कारकः / स चात्रोपादानरूपो यथा मृदा घटः / ततश्च प्रथमानां द्वितीयैर्यः 15 संयोग इत्यर्थः सम्पद्यते / एवमुत्तरत्रापि / प्रथमैः इति / प्रथमाश्च प्रथमाश्च प्रथमास्तैः प्रथमानां प्रथमैरित्यर्थः / एवं तृतीयानां तृतीयैरिति / विलुलितमकरन्दम् इति / अत्र शैथिल्यस्यापि सद्भावात् प्रसादोऽप्यस्ति / यत्र चोक्तरूपसर्वनिमित्तसन्निपातस्तत्रास्य शैथिल्यासम्पर्कात् प्रसादरूपत्वाप्राप्तौ शुद्धमेव सुव्यक्तं रूपम् / यथा केवलौजोगुणभासि प्रसादशून्यायां गौडीयरीतौ दोर्दण्डाश्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः / द्राक् पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर ___ भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति // इत्यादौ / . तद्गुरूणाम् इति / कचिद् गुरूणां बाहुल्यं लघूनामल्पत्वं, कचिल्लघूनां बाहुल्यं 25 गुरूणामल्पत्वं, क्वचिदुभयेषां समत्वमित्यनेकप्रकारमाख्यायिकादिषु द्रष्टव्यम् / अस्तमस्तकइति / गुरुबाहुल्योदाहरणमिदम् / इति पद्येऽपि इति / इत्येवंविधा अतिदीर्घसमासबाहुल्यवतीरहृयाश्च / अन्येऽपि इति। वैदर्भा अपि / अतिदीर्घसमासम् इति / अतिदी? अतिदीर्घा वा समासा यत्र तत्तथा / अव्यवहित-इति / अनाकुलपदस्य द्वितीयोऽयमर्थः / अनेन च व्यवहितपदबन्धेऽप्योजो गौडैरिष्यत एवेति भावः / 30