________________ कल्पलताविवेके खलु विशिष्टधर्मनिष्ठतया साध्यसाधनभावः प्रसिद्धस्तत्र * कदाचिद् दृष्टान्तमात्रेऽप्युपात्ते प्रसिद्धिमाहात्म्यात् साध्यसाधनभावोऽप्यनुसत्तुं शक्यते / यथा पर्वतोऽयं महानसः इति / भरतस्त्वमित्यादौ तु साध्यसाधनभावस्य विशिष्टधर्मगतस्याप्रसिद्धत्वात् साध्यसाधनभावाभिप्रायेग दृष्टान्तता वक्तुमशक्या। तेन तदेवंविधायां विवक्षायां नेयार्थं काव्यम् / एवमेतद्यत्रानुपात्तप्रकृतार्थोपयोगिपदत्वादुपात्तानां पदानामभिधा व्याकुलीभवति तन्नेयार्थं काव्यं प्रत्युदाहरणत्वेनोपन्यस्तम् / यस्तु पदानामन्यार्थत्वादिनाऽप्रसन्नता नाम द्वितीयः पददोषः सः असुनिर्भेदमित्यनेनाग्रे दर्शयिष्यते-पदार्थदोषोऽहृद्यमित्यनेन, वाक्यदोषोऽबद्धपदमित्यादिना, वाक्यार्थदोषश्चांशुमद्भिरित्यादिनेति / यत्र दृष्टान्तमात्रेण इति / अत्र मात्रग्रहणेन प्रतिपिपादयिषितगुणाप्रतिपत्तिं दर्शयति / दृष्टान्तेन केवलेन यत्र साध्यसाधनयोर्व्यक्तिस्तं शुद्धदृष्टान्तं ब्रुवते / किं कारणमित्याह-तन्मात्र-इति / अमुकवद् इति / अमुकमस्यास्तीति मतुप् / उपहसन्नाह इति उपहासेनोत्तरमाहेत्यर्थः / इति प्रयुञ्जते इति / एतदुक्तं भवति / कतिपयपुरुषप्रयोगमात्रमत्र शरणं न पुनायः / एकम् इति एकमपीत्यर्थः / अपेशलम्-इति / अभिमतरसोचितशब्दाप्रयोगात्। .. आमम्-इति / आमं हि कपित्थं हृदयग्लानिकरमुपयुक्तं सत्' खस्कपरत्वाच्च असुनिर्भेदम् / रसोऽपि तत्र अतिकषाय इत्यसुखावह इति / प्रत्युदाहरणं प्रजाजन-इति / अत्र प्रथमेऽऽहृद्यत्वम् / द्वितीये तु अमुनिर्भेदत्वम् / प्रत्युदाहरणान्तरं दित्सुराहअंशुमद्भिः इत्यादि / शुभमरकत-इति / अत्र हि पुराणप्रजापतिनिर्मिता एव पदार्थाः प्रदर्शिताः, न तु कविप्रतिभानिर्माणा इति दुष्टो वाक्यार्थः / एतदूषयितुमाह-तदेभिरङ्गइति / अनेन इति / अङ्गत्यामन्त्रणपदेन प्रत्युदाहरणान्तरप्रदर्शनार्थमाह-अबद्धपदम् इति / तदेवं पदपदार्थदोषाश्रयेण प्रत्युदाहरणत्रितयमुक्तम् / नेयार्थत्वाऽहृद्यत्वाऽप्रसन्नत्वोपनिबन्धनात् / वाक्यदोषस्तु अबद्धपदमित्यादिनोक्तः / वाक्यार्थदोषस्य तूदाहरणं शुभमरकत पद्मरागेत्यादि / तदेवमेते प्रत्युदाहरणद्वारेण चत्वारो दोषाः परिहर्त्तव्यतया दर्शिताः / ____ आगमगम्य इति / योऽर्थ आगमाद्वेदादिकाद् गम्यो वाच्योऽथ चागममनपेक्ष्यैवोच्यते स निरागमोऽर्थदोषः / आगम इति / तथा च स्मृतिः-"राजा राजसूयेन स्वाराज्यकामो यजेत" "राजा सर्वतो विजिती अश्वमेधेन यजेत" इति / कला इति / कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु वाक्येषु तानीत्यर्थः / पूर्णस्वरत्वादस्या इति / तथा चाह मुनिः 1. काव्ये // 2, -वह इति प्रजा- क. // 3. स्वर्ग // 4. विजयी //