________________ दोषदर्शनम् इति / तथाहि-ग्राहकांशेन कल्पनाव्यावृत्तिपरिधटितेन संविदंशस्तथाविधो व्यवस्थाप्यत इति व्यवस्थाप्यव्यवस्थापकभावात्मकस्य प्रमाणफलभावस्य न काचिद् हानिः / / सर्वविज्ञानेषु चित्तवृत्तिनिरोधे इत्यादि / यद्यपि नीलाद्याकारप्रकाशस्वभावज्ञानस्वलक्षणनिष्ठतया व्यावृत्तिपरिघटितं प्रमागप्रमेयप्रमित्यात्मकसंवित्त्रितयं दृश्यविकल्प्ययोरर्थयोरेकीकाराद्वक्तुं शक्यते, तथापि सांवृतपरमार्थत्वभेदान्वेषणे क्रियमाणे पूर्वोपदर्शित- 5 योगाचारदर्शनानुप्रवेशप्रसङ्गः / तथाहि-तत्र ज्ञाने संविद्रूपत्वं च प्रतीयते ग्राह्यग्राहकांशी च / तत्र यौ तौ ग्राह्यग्राहकांशौ तौ संविद्रूपादनन्यौ अन्यौ वा / अनन्यत्वपक्षे ग्राह्यग्राहकांशयोरभाव एव प्राप्तः संविद्रूपपरमार्थत्वात् / अन्यत्वे तु सिद्धान्तहानिः / एवं ग्राह्यग्राहकांशाभ्यामव्यतिरिक्तत्वे संविदंशस्य तदभावप्रसङ्गो वाच्यः / ग्राह्यग्राहकांशयोरेव परमार्थत्वात् / अन्यत्वे तु सिद्धान्तहानिः / तदेवं नीलाद्याकारप्रकाशस्वभावज्ञानस्वलक्षणनिष्ठस्य 10 रूपत्रितयस्य तत्त्वान्यत्वविकल्पाभ्यामनुपपद्यमानत्वात् स्वच्छज्ञानप्रवाहपरमार्थतावादियोगाचारदर्शनानुप्रवेशप्रसङ्गः / तस्यैव स्वच्छस्य ज्ञानप्रवाहस्य एकाग्रतासंस्कृते अनेकाग्रे च चित्तेऽनुवर्तमानत्वात्तन्निष्ठयो रेवैकाग्रतानेकाग्रतयोरनुभवात् / तदिदमुक्तं “सर्वविज्ञानेषु चित्तवृत्तिनिरोधे व्युत्थानावस्थायां च" इति / चित्तवृद्धिनिरोध इत्यनेन एकाग्रतासंस्कारो बाधशून्यत्वेन परमार्थत्वम् / व्यावृत्तानां तु रूपभेदानामागमापायित्वादसत्यत्वम् / अतश्च स्वच्छस्यैव विज्ञानस्य परमार्थता प्राप्ता / तत्र च पूर्वमेवातिथ्यं विहितम् / प्रत्यक्षं तत्त्ववृत्ति हि इति / वासुबन्धवेऽपि मार्गे इति वैभाषिकमते इत्यर्थः / तदेवं वैभाषिक खलु “ततोऽर्थादिति केचन" इति प्रत्यक्षलक्षणम् / शिष्टेषु च दर्शनेषु “प्रत्यक्ष कल्पना- 20 पोढम्” इति तदुभयं निराकृतम् // ननु च प्रमाणलक्षणोपदर्शने प्रक्रान्ते प्रत्यक्षलक्षणदूषणमिदं व्यवहारानुपयोगित्वेन विषयशून्यतया चासम्बद्धम् / तथाहि-व्यवहारानुपयोगित्वेनेति लौकिके व्यवहारे हानोपादानात्मकेऽनुपयोगः / विषयशून्यतया चेति तु प्रक्रमभङ्गः, प्रमाणलक्षणोपदर्शनस्य हिं प्रक्रान्तत्वात्तद्विषयं सर्वमिह वक्तव्यम् / न च प्रमाणलक्षणनिष्टतया लक्ष्याव्याप्तिरलक्ष्य- 25 व्याप्तिर्वा अनेन निराक्रियते इति विषयशून्यमिदं प्रत्यक्षलक्षणदूषणमिति / अत्रोच्यते / नासम्बद्धमिदं, सर्वतर्केषु प्रमाणलक्षणानां विचाराक्षमत्वदिशं दर्शयितु 1. कल्पनापरि-ग. // 2. दृश्यं ग // 3. स्वसिद्धान्त-ग. // 4. लक्ष-ग. //