________________ - दोषदर्शनम् च पदमध्ये नायं भेदः, किं तर्हि पदान्त एव / यणादेशे कृतेऽप्यशब्दाकारस्यान्ते शब्दैकारस्य चान्तत्वात् अगणितव्यञ्जन एव हि स्वरैकशरणोऽयं यत्यादिव्यवहारः / किश्चिद्भावेत्यत्राप्यलसमिति पदे भिन्नेऽपि न पदमध्यभेदः / दीर्घत्वादेशे हि कृते किञ्चिद्भावेत्याकारान्तस्य पदान्तत्वम्। अलसमित्यस्य तु लकारादेः पदत्वम् / आदेशस्य च क्वचित् पूर्वपदानुगतत्वं, कचिदुत्तरपदानुगम इति / किञ्च वदतु यदिहान्यदित्यादौ यतिभ्रष्टत्वसिद्धये 5 "कचित् सन्धावपि” इति सूत्रशेषः कार्यः / एवं च ध्वजिनी तस्य राज्ञः केतूदस्तजलदेत्यत्रापि यतिभ्रष्टत्वं सिद्धयति / दीर्घत्वादेशे कृते व्यञ्जनस्याविवक्षायां केशब्दैकारस्यान्तभावेन पदान्तभेदात् यतिभ्रंशाभावः प्राप्तोऽपोद्यते / यतिभ्रष्टत्वप्रतीतेः श्रव्यत्वानापत्तेः / वाच्यम् इति / यतोऽत्रापिशब्दं विना विवक्षितस्यार्थस्य न प्रतिपत्तिः / कचित्तु दुष्टस्यार्थस्य प्रतीतिर्भवति / यथा सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि / शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम्॥ अत्र हि धनशब्दादनन्तरं यावत् कार्यशब्दो न प्रयुक्तस्तावद्धनैः किमिति परहितानि कुरुष्वं, मा काटेंति दुष्टोऽर्थः प्रतीयते / एतदुभयरूपमपि न्यूनपदम् / अनभिहितवाच्यमिति अन्ये / तैर्हि विवक्षितार्थाप्रतिपत्त्यादेरवश्यवक्तव्यमनुक्तं यत्र सोऽनभिहितवाच्यस्य 15 विषयः, यत्र तु वक्तव्यमात्रस्यानभिधानं स न्यूनपदस्येत्यभिसन्धाय उभावप्येतौ दोषौ विवेके ने प्रदर्शिताविति / सेलमुयारुद्ध-इति / अत्र न ज्ञायते किं प्रमथनाथं नमत उत शैलसुतादित्रीषु सक्तमिति कृत्वा निन्दतेति सन्देहाद्विवक्षितक्रियाया अप्रतीतिः। तथा इति स्तुवन्निन्दन्तौ समुच्चीयेते / ननु हर्षेण स्तूयते भयेन च निन्द्यते इति स्तुतिनिन्दाग्रहणमनर्थकम् / नैष 20 नियमोऽन्यथापि दर्शनात् / यथा तुङ्गात्मताऽस्तशिखरस्य मुधैव भानो लम्बिनी भवति यत् समये प्रपित्सोः / श्लाघ्यः स तामरसनालगुणोऽपि दैत्य-भीत्यायमेत्य मरुतां पतिराललम्बे // वद वदेति इति / अत्र हर्षभयाद्भुतशोका यथाक्रमं प्रतीयन्ते / जय जय इति। . अत्र पूर्वेऽर्दै स्तुतिरपरे तु निन्दा / एवं प्रसिद्धं च इति / एवं वीप्सातुल्यं न तु वीप्सायां 25 यत् कविलक्ष्येषु प्रसिद्धं तदपि न दोषाय / वीप्सापदं यथा द्विगुणमेवमवीप्सायामपि यत् प्रसिद्धं तदपि न दोषायेत्यर्थः / यथा वारंवारमिति / 1. -भिधायोभावेऽप्येतौ विवेके न ग. //