________________
अपये त्वदीयं तुभ्यम् ॥ अनेकतीर्थोद्धरणाप्तकीर्ति
प्रभा यदीया प्रचकास्ति नित्यम् । शास्त्राब्धिपारङ्गमवन्द्यपादं
- तं नेमिसूरिं गुरुवर्यमिडे ॥ १ ॥ तत्पट्टभूषणं दिव्यं, सौजन्यस्य निकेतनम् । वन्दे विज्ञानसूरीन्द्रं, वत्सलं शास्त्रवित्तमम् ॥ २ ॥ संस्कृता प्राकृता चेति, वाग्द्वन्द्वेऽपरगीष्पतिम् । नौमि कस्तूरसूरीन्द्रं, तत्पट्टधरमादरात् ॥ ३ ॥
यव्याख्यानसुधाम्भोधौ व्यहरज्जनता मुदा । तत्पट्टभूषणं भक्त्या , यशोभद्रं गुरुं स्तुवे ॥ ४ ॥
द्रव्यानुयोगनिष्णातं, पाण्डित्यपरिपूरितम् । श्रीमत् शुभङ्कराचार्य, नौमि तत्पट्टधारकम् ॥ ५ ॥ योऽसत्सद्घटनाविवेचनविधौ,
बिभ्रत्सु सूक्ष्मैक्षिकाम् । वात्सल्ये जनकोपमश्च सततं,
रत्नत्रयाराधकः ॥ व्याख्यानेऽन्यदिवाकरः परिवृतः,
शिष्यैः सविद्यैः सना । तंसूर्योदयसूरिराजमनिशं,
वन्दे गुरुं भक्तितः ॥ ६ ॥ अपर्ये त्वदीयं तुभ्यं, सम्यग्ज्ञानप्रदायिने । सम्यक्चारित्रयुक्ताय, श्री सूर्योदयसूरये ॥ ७ ॥
- मुनि नन्दीघोषविजयः ॥