________________
श्रीसूत्रकृताङ्गसूत्र - प्रथम श्रुतस्कंध की प्रस्तावना
तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे त्वयमर्थाधिकारः तद्यथा‘समवसृता' अवतीर्णाः व्यवस्थिताश्चतुर्षु मतेषु क्रियाऽक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थं प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते । त्रयोदशे त्विदमभिहितं, तद्यथा- सर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते । चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्यथा- शिष्याणां गुणदोषकथना, तथा शिष्यगुणसंपदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति । पञ्चदशे त्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयं, तद्यथा- आदीयन्ते - गृह्यन्ते, उपादीयन्त इत्यादानीयानिपदान्यर्था वा ते च प्रागुपन्यस्तपदैरर्थैश्च प्रायशोऽत्र सङ्कलिताः, तथा आयतं चरित्रं सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति । षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमर्थो व्यावर्ण्यते, तद्यथा- पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोऽत्र 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ नि० ॥
1 गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं । इत्तो इक्किक्कं पुण अज्झयणं कित्तयिस्सामि 2
॥१॥
तत्राद्यमध्ययनं समयाख्यं तस्य चोपक्रमादीनि चत्वार्य्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमणमुपक्रम्यते वाऽनेन `शास्त्रं न्यासदेशं निक्षेपावसरमानीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षड्रूप आवश्यकादिष्वेव प्रपञ्चितः । शास्त्रीयोऽप्यानुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोढैव । तत्रानुपूर्व्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः । तत्रेदमध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यम् । तत्र दशविधायामानुपूर्व्यां गणनानुपूर्व्यं समवतरति । साऽपि त्रिधा - पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्रेदमध्ययनं पूर्वानुपूर्व्यं प्रथमं पश्चानुपूर्व्यं षोडशम्, अनानुपूर्व्यं तु चिन्त्यमानमस्यामेवैकादिकायामेकोत्तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसङ्ख्याभेदं भवति । अनानुपूर्व्यं तु भेदसङ्ख्यापरिज्ञानोपायोऽयं ।
तद्यथा- एकाद्याः गच्छपर्य्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं विकल्पगणिते फलम् ॥ प्रस्तारानयनोपायस्त्वयम्
॥१॥
पुव्याणुपुव्वि हेट्ठा समयाभेएण कुण जहाजेट्टं । उयरिमतुल्लं पुरओ नसेज्ज पुव्यक्कमो सेसे
तत्र
“गणितेऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं विकल्पगणिते क्रमात्
un
अयं श्लोकः शिष्यहितार्थं विव्रियते तत्र सुखावगमार्थं षट् पदानि समाश्रित्य तावत् श्लोकार्थो योज्यते, तत्रैवं १, २, ३, ४, ५, ६ षट् पदानि स्थाप्यानि एतेषां परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र षट्कस्तेन भागे हृते विंशत्युत्तरं शतं लभ्यते, तच्च षण्णां पङ्क्तीनामन्त्यपङ्क्तौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येकं विंशत्युत्तरं शतं न्यस्यम्, एवमन्त्यपङ्क्तौ सप्तशतानि विंशत्युत्तराणि भवन्ति । एषा च गणितप्रक्रियाया आदिरुच्यते । तथा यत्तद्विंशत्युत्तरं शतं लब्धं तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, तावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैककाः प्रत्येकं पञ्चमपङ्क्तौ न्यस्याः यावद्विंशत्युत्तरं शतमिति । तदधोऽग्रतो न्यस्तमङ्कं मुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चतुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपङ्क्तावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योऽभिधीयते। एवमनया प्रक्रियया चतुर्विंशतेः शेषचतुष्ककेन भागे हते षट् लभ्यन्ते तावन्तश्चतुर्थपङ्क्तौ चतुष्ककाः स्थाप्याः तदधः षट् त्रिकाः पुनर्द्विकाः भूय एककाः, पुनः पूर्वन्यायेन पङ्क्तिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हृते द्वौ लभ्येते । तावन्मात्रौ त्रिकौ तृतीयपङ्क्तौ, शेषं पूर्ववत् । शेषपङ्क्तिद्वये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति । १२३४, २१३४, १३२४, ३१२४, २३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३, ४२१३, १३४२,
1. गाथाषोडशकानां पिण्डार्थो (वर्णितः समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्त्तयिष्यामि ||9|| 2. चूर्णिगाथा ।