________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने तृतीयोद्देशके गाथा ९ परसमयवक्तव्यतायांजगत्कर्तृत्वखण्डनाधिकारः
अन्वयार्थ - (सएहिं) अपने (परियाएहिं) अभिप्राय से (लोय) लोक को (कडेति य) किया हुआ (बूया) वे बताते हैं (ते) वे (तत्तं) वस्तुतत्त्व को (ण विजाणंति) नहीं जानते हैं (कयाइवि) कभी भी (ण विणासी) यह जगत् विनाशी नहीं है।
भावार्थ - पूर्वोक्त देवोसादिवादी अपनी इच्छा से जगत् को किया हुआ बतलाते हैं । वे वस्तु स्वरूप को नहीं जानते हैं, क्योंकि यह जगत् कभी भी विनाशी नहीं है ।
___टीका - स्वकैः स्वकीयैः पय्ययैिरभिप्रायैयुक्तिविशेषैरयं लोकः कृत इत्येवमब्रुवन् अभिहितवन्तः । तद्यथा देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तन्निष्पादितमायया म्रियते तथाण्डजश्चायं लोक इत्यादि। स्वकीयाभिरुपपत्तिभिः प्रतिपादयन्ति यथाऽस्मदुक्तमेव सत्यं नान्यदिति । ते चैवंवादिनो वादिनः सर्वेऽपि तत्त्वं परमार्थं यथावस्थितलोकस्वभावं नाभि (न वि) जानन्ति न सम्यग् विवेचयन्ति- यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन । न चायमादित आरभ्य केनचित् क्रियते, अपि त्वयं लोकोऽभूद्भवति भविष्यति च । तथाहि-तत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसङ्गतम् । यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति । अपि च- किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ? न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः। अथोत्पन्नः सृजेत् तत्किं स्वतोऽन्यतो वा ? यदि स्वत एवोत्पन्नस्तथासति तल्लोकस्यापि स्वत एवोत्पत्तिः किं नेष्यते ? अथान्यत उत्पन्नः सन् लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति । अथाऽसौ देवोऽनादित्वान्नोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, को दोषः ? किं च- असावनादिः सन्नित्योऽनित्यो वा स्यात् ? यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृत्वम्, अथाऽनित्यस्तथा सति स्वत एवोत्पत्त्यनन्तरं विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति ? तथा किममूर्तो मूर्तिमान् वा ? यद्यमूर्तस्तदा ऽऽकाशवदकर्तेव । अथ मूर्तिमान्, तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति । देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति । एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमत्वादिति । तथा यदुक्तं- 'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं, कार्य्यत्वाद्, घटादिवदिति, तदयुक्तं, तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्त्यसिद्धेः, कारणपूर्वकत्वमात्रेण तु कायं व्याप्तं, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, न चात्यन्तादृष्टे तथा प्रतीतिर्भवति । घटे तत्पूर्वकत्वं प्रतिपन्नमिति चेद् युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, न त्वेवं सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीत इति। नन्वत एव घटादिसंस्थानविशेषदर्शनवत् पर्वतादावपि विशिष्टसंस्थानदर्शनाद् बुद्धिमत्कारणपूर्वकत्वस्य साधनं क्रियते, नैतदेवं युक्तं, यतो नहि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्याद् मृद्विकारत्वाद्वल्मीकस्याऽपि घटवत् कुम्भकारकृतिः स्यात्, तथा चोक्तम्“अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादेः करणाल्सिद्धयेद् वल्मीकस्याऽपि तत्कृतिः।।१।।"
___ इति, तदेवं यस्यैव संस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति । अपिच- घटादिसंस्थानानां कम्भकार एव विशिष्टः कर्तोपलक्ष्यते नेश्वरः यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदस्ति, तत्राऽपीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानिरदृष्टकल्पना स्यात् । तथा चोक्तम् - "शखौषधादिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धच्य किं स्थाणोः" कारणत्वं न कल्प्यते ? ||१||
तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति । अपि च- देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तदृष्टान्तसाधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद् व्याप्त्यसिद्धेर्नानुमानमिति । अनयैव दिशा "स्थित्वा प्रवृत्त्यादिकमपि" साधनमसाधनमायोज्यं तुल्ययोगक्षेमत्वादिति । यदपि चोक्तं "प्रधानादिकृतोऽयं लोक" इति तदप्यसङ्गतं, यतस्तत्प्रधानं किं मूर्तममूर्तं वा ? यद्यमूर्तं न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, नह्याकाशात्किञ्चिदुत्पद्यमानमालक्ष्यते, मूर्तामूर्तयोः कार्यकारणविरोधादिति । अथ मूर्तं तत्कुतः समुत्पन्नं ?, न