________________
APRIL, 1876.]
सोमसुद्धन्य इत्यर्थ आह कुयोनिजोऽपि सर्वेभ्यो धन्यो भवति सोमसुत् । ऐच्छन्मेधातिथिः साम्यमुशिक्पुत्रस्य सुन्वतः ॥ ४ ॥ ( Rv. 1, 18, 1.)
THE NITIMANJARI OF DYA DVIVEDA.
पित्रोर्भक्तिपरेण भाव्यमित्यृग्दृष्टान्तेनाह मातरं पितरं भक्त्या तोषयेद्यः स भात्युरु । पितरावृभवश्च कुरुरुभासो नवावतः ।। ५ ।।
(Rv. I, 20, 4.)
कृतसंविभागो भुङ्क इत्याह
विभज्य भुञ्जते सन्तो भक्ष्यं प्राप्य सहामिना । चतुरश्चमसान्कृत्वा तं सोममृभवः पपुः ।। ६ ।। (Rv. I, 20, 6.)
पितरौ वन्द्यावित्याह
पितरौ हि सदा वन्द्यौ न त्यजेदपराधिनौ । पित्रा बद्धः* शुनःशेपो ययाचे पितृदर्शनम् || ७ | (Rv. I, 24, 1.)
देवानामपि स्तुतिः प्रियेत्याह ऐश्वर्यपरिपूर्णो ऽपि दद्यात्स्तुत्यापि चेप्सितम् । शुनःशेपाय सौवर्ण रथमिन्द्रः स्तुतो ददौ ॥ ८ ॥ ( Rv. I, 30, 16.)
बहुभिः स्पर्धा न कार्यैव्याह हिंसाकूरतराचरिर्न व्रजेद्दिश्वशत्रुताम् । विश्वशत्रुर्हतो वृत्र इन्द्रेणापां निरोधकः ॥ ९ ॥ (Rv. I, 32, 11.)
यज्वनां ये स्पर्धिनस्तेषामिन्द्र एव शास्तेत्याह यज्वभिर्नास्तिको भूत्वा स्पर्धा कुर्यान बुद्धिमान् । स्पर्धमाना अयज्वानो हता इन्द्रेण तैः सह ॥ १० ॥ (Rv. I, 33, 5.)
देवतापि कृतं
कर्म भु इत्याह
शुभाशुभं कृतं कर्म भुञ्जते देवता अपि । सविता महतोऽभूद्रोऽन्धः पूषको ऽद्विजः ।।११।। ( Rv. I, 35, 9.) कया प्रजया प्रजावान्भवतीति प्रश्न आह
अन्य इच्छन्ति यत्साम्यं प्रजावान्प्रजया तया । ब्रह्मा स्वसूनुसाम्येष्टेः काण्वस्यातः प्रजापतिः ॥ १२॥ (Rv. I, 45, 3.) MS. सोमसुतधन्य. * MS. बद्धशु० + Ms. शुभकृतं.
117
यात्रा रूपहानिकरी भवतीत्याह प्रभोरपि धिगर्थित्वं रूपहानिं करोति यत् । मेधातिथिं यदायाचदिन्द्रो मेषो ऽभवत्ततः ॥ १३ ॥ (Rv. I, 51, 1.)
निःस्पृहदातारं स्तुवन्नाह
स इन्द्रादधिको दानं यो दद्यानि सृहः पुमान् । इन्द्र siriya+सुन्वते सोमवल्लभः ॥ १४ ॥ ( Rv. I, 51, 18. )
नृणां धनदो धन्यो महानित्याह
नृषु यो धनदो धन्य इन्द्रतुल्यैः प्रशस्यते । सुष्टुत्या द्रविणोदसु सव्यो नाहेति दुःष्टुतिः ॥ १५ ॥ ( Rv. I, 53, 1.)
विमलेन मनसा भाव्यमित्याह
देवा रक्षन्ति तं नित्यं यस्य स्याद्दिमलं मनः । ररक्षेन्द्रो ऽमलाञ्श्रोणनुर्वी.तयदुतुर्वशान् ॥ १६ ॥
(Rv. I, 54, 6.)
द्विजी रक्ष्य इत्याह
इन्द्रः स्याद्वहीनो ऽपि द्विजरक्षां करोति यः । पुरेन्द्रः सूर्यसंग्रामे ररक्ष ह्येतशं द्विजम् ॥ १७ ॥ (Rv. I, 61, 15.)
तत्त्वविदपि संसारान मुच्यत इत्याह तत्त्वविदपि संसार मूढो भवति लोभतः । तत्त्वज्ञा सरमायाचदिन्द्रमनं गवां ग्रहे ॥ १८ ॥ (Rv. I, 62, 3.)
महान्मृतो ऽप्युपकारीत्याड महान्पतितायो ऽपि करोति सुखिनं परम् । दधीचो ऽश्वशिरोस्थनेन्द्रो हत्वा वृत्राण्यभूत्सुखी ॥१९॥ (Rv. I, 81, 13.) सतामुपकाराय यः श्रमस्तत्सुखमित्याह
सतां परतृषां हन्तुं यः श्रमस्तत्सुखं भवेत् । मरुतः कूपमुत्क्षिप्य गोतमायाम्बु शं ददुः ॥ २० ॥ (Rv. I, 85, 10.) साधन उपकर्तुमकृत्यमपि कुर्वन्तीत्याह अकृत्यमपि कुर्वन्ति परकार्याय साधवः दीर्घजिव्हीं मनुष्येभ्यः कुत्सो हत्वाभयं ददौ ॥ २१ ॥ ( Rv. I, 97, 1.)
+ Ms. पुत्री.
SMS. परतृषाः