________________
(५४६) महतिमति मते हि ते शस्यमानस्य वासं सदाऽतन्वती
तापदानन्दधानस्य साऽमानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तनिमज्जजनोत्तार
नौ रती तीर्थकृद्, महति मतिमतेहितेशश्य मानस्य वा संसदातन्वती
तापदानं दधानस्य सामानि नः ॥ ३ ॥ सरभसनतनाकिनारीजनोजपीठीलुठत्तारहारस्फुरद्रश्मि
सारक्रमाम्भोरुहे, परमवसुतराङ्गजा रावसन्नाशितारातिमाराऽजिते
भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंकठोत्कृष्टकण्ठोद्भटे संस्थिते
भव्यलोकं त्वमम्बाम्बिके !, परमव सुतरां गजारावसन्ना शितारातिभा राजिते
भासिनीहारताराबलक्षेऽमदा ॥४॥
इति.