________________
(५७) श्रीधर्मनाथजिनेन्द्र-स्तुतिः (१५)
( अनुष्टुए-वृत्तम् ) नमः श्रीधर्म निष्कर्मो-दयाय महितायते ! , मामरेन्द्रनागेनै-दयायमहिताय ते. जीयाज्जिनौधो ध्वान्तान्तं, ततान लसमानया, भामण्डलत्विषा यः स, तताऽनलसमानया. भारति द्राग् जिनेन्द्राणां, नवनौरक्षतारिके, संसाराम्भोनिधावस्मा-नवनौ रक्ष तारिके. केकिस्था का क्रियाच्छक्ति-करा लाभानयाचिता, प्रज्ञप्तितनाम्भोज-करालामा नयाचिता. श्रीशान्तिनाथजिनेन्द्र-स्तुतिः (१६)
( शार्दूलविक्रीडित-वृत्तम् ) राजन्त्या नवपद्मरागरुचिरैः पादैजिताष्टापदाद्रेऽकोप द्रुतजातरुपविभया तन्वाय धीर क्षमाम् । बिभ्रत्यामरसेव्यया जिनपते श्रीशान्तिनाथाऽस्मरोद्रेकोपद्रुत जातरुप विभयाऽतन्वायंधी रक्ष मा. ते जीयासुरविद्विषो जिनषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनःसंतानकान्तां चिता कीर्त्या कुन्दसमविषेषदपि ये न प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनःसंतानकान्ताञ्चिता..
१