SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४४ तव देव ! पदाम्भोजसेवाऽति दुर्लभा भवे। पुण्यसम्भारहीनानां कल्पवल्लीव देहिनाम् ते धन्या मानवा देवा यैरापि तव शासनम् । वन्दनीया विभो ! ते ये वन्दन्ते भवतः पदौ ॥३॥ प्रचण्डतमरागादिरिपुसन्ततिघातकम् । श्रीयुगादिजिनाधीशं देवं वन्दे मुदा सदा ॥४॥ श्रीशत्रुञ्जयकोटीर ! कृतं राज्यश्रिया प्रभो!। सर्वाघनाशनं मेऽस्तु शासनं ते भवे भवे [३३] श्रीगिरिनारस्तवनम् । श्रीउज्जयन्तशैलेशतुङ्गशृङ्गविभूषणः ।। श्रीमन् ! नेमिजिनाधीश! जय श्रीकेलिमन्दिर ! ॥१॥ दृष्टः पुण्येन येन त्वं दुर्लभोऽपि मया भवे। 'दर्शनेन स्वकीयेन तत् पुषाण ममाधुना ॥२॥ [३२] ३ आपि प्राप्तम् । ४ प्रचण्डतम-रागादि-रिपु-सन्तति-घातकं-घोरतम-रागद्वेषादिरूप वैरि-समूह-नाशकम् । मुदा-हर्षेण । ५ श्रीशत्रुञ्जयकोटीर हे श्रीशत्रुञ्जयमुकुट । कृतं अलम् (न मे प्रयोजनमिति भावः ) । सर्वाघनाशनं समग्रपापनाशकम् । [३३] २ तत्-तस्मात् कारणात् । 'ममाधुना' इत्यत्रस्थाने 'मामधुना'
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy