________________
२४
॥ ४॥
त्यक्तराज्यरमाऽऽराम ! नीराग ! जय नीरजः ! । स्रस्तभावद्विषजात ! प्रदातस्नेहबन्धन ! मुक्तेर्निःशोक ! निष्कोप ! निर्दम्भ ! मम निर्भय ! त्वं यच्छ शर्म निर्ह्रास ! मरणोज्झित ! निर्भव !
|
[१४] श्रीअनन्तस्तत्रनम् । श्रीअनन्तजगन्नाथमनन्तयशसं जिनम् । अनन्तपृथुविज्ञानमनन्तसुखदं स्तुवे नाभिभूतश्चतुर्वक्त्रो हंसगामी प्रजापतिः । सदा ब्रह्माऽसि धातेव प्रभो ! चित्रमराजसः
॥ ५ ॥
॥ १॥
॥२॥
४ त्यक्तराज्यरमाऽऽराम - हे दूरीकृत राज्य - स्त्री - उपवन । नीरज: = हे निर्गतकर्ममल । स्रस्तभावद्विषज्जात - हे नष्टआन्तखैरिसमूह | प्रदातस्नेहबन्धन=हे छिन्नमोहन्थे ।
[ २४ ]
२ अस्मिन् श्लोके ब्रह्माणं श्रीअनन्तजिनं चोपलक्ष्य कविना श्लेषो विहितोऽस्ति । ब्रह्मपक्षे - ब्रह्मा नाभिसम्भवः, चतुर्मखः, हंसवाहनः, प्रजापतिः, धाता च प्रतीतः । श्रीअनन्तजिनपक्षे - श्री अनन्तजिनः नाभिभूतः = केनापि न पराभूतः, चतुर्वक्त्रः= देशनावासरे समवसरणस्थितस्य जिनवरस्य प्रत्येकदिशमाश्रित्य चत्वारि मुखानि दृश्यन्ते, हंसगामी = हंसवत्सुगमनः, प्रजापतिः= लोकस्वामी, धाता=संसारपतीतानां जन्तूनां धारकः । हे प्रभो त्वं ब्रह्मसदृशैरेतैर्विशेषणैर्युक्तः सन् सदा ब्रह्मेव, तथापि त्वं राजसः= रजोगुणयुक्तो न इति खलु चित्रं आश्चर्यकारकम् ब्रह्मा तु रजोगुणयुतः मन्यते ।