________________
॥ अहम् ॥ श्रीमद्विजयधर्ममूरीश्वर-गुरुभ्यो नमोनमः ।
[१] श्रीऋषभस्तवनम् । श्रीनामेय ! सुनायसदनं सदनन्तचित् । न त्या नत्वा दयोलो ! के लोके लोकेशतामगुः ॥१॥ हतमोहतमोद्रोहः कामदः कामदर्पहा । जय सद्भालसद्भाल ! त्वमितापदतापदः ॥२॥ स्तवं निर्माय निर्माय ! न तवाऽऽनतवासक!। सुकृती सुकती जज कोऽमलः कोमलध्वने ! ॥ ३ ॥
[१] १ * सुनाभेयसदनम्' एतस्य पदस्य कवीप्सितोऽर्थो न ज्ञायते, तथापि
'अष्टापदवास्तव्यम्' इत्यर्थोऽनुमीयते, श्रीऋषभदेवस्य अष्टापदे निर्वाणावाप्तः। सुनाम इति पर्वतविशेषस्याभिधानम् । सदनन्तचित् सम्यगनन्तज्ञानिन्-हे केवलज्ञानिन् । त्वा त्वाम् ।
अगु:=प्राप्तवन्तः। २ सद्भालसद्भाल हे सम्यक्प्रभादेदीप्यमानललाट । इतापत्-गतदुःखः । __ अतापदः शान्तिदाता । ३ निर्माय-रचयित्वा । निर्माय हे मायारहित। आनतवासव हे
इन्द्रकृतप्रणाम । सुकृती विद्वान् । सुकृती-पुण्यशाली । अमल:= निर्मलः । कोमलध्वने हे मधुरस्वर ।
* टिप्पनिकासङ्घयाप्रदर्शकोऽयमकोऽत्राग्रेऽपि च सर्वत्र मूलस्तवनलोकाङ्कसूचकोऽवसेयः। तत्तदकयुतटिप्पनिका तत्तदङ्कयुतमूलश्लोकस्य स्पार्थका ज्ञेया।