________________
61
नयमा नयमा नयमा नयमा; क्षणल क्षणल क्षणल क्षणल, क्षरद क्षरद क्षरद क्षरद. ॥४॥ प्रमदा प्रमदा प्रमदा प्रमदा, नकरा नकरा नकरा नकरा; नवमा नवमा नवमा नवमा, नसदा नसदा नसदा नसदा. ।।५।। तरसा तरसा तरसा तरसा, दयनो दयनो दयनो दयनो; कदम कदमं कदम कदम, विभवा विभवा विभवा विभवा. ॥६॥ इति पार्धजिनेश्वर! ते स्तवनं, रचितं खचितं यमकैस्सुधनं, परिरंजितदक्ष नरप्रकरं, कुरुताच्छिवसुंदर सौरभरं ॥७॥
(160) श्री आदिनाथ चैत्यवंदन चिदानन्दलीलारसास्वादलीनं, गुणैः सिद्धिभाजामनन्तैरहीनम् । मुदा सर्वदा श्री युगादीशदेवं, स्तुवे भद्रदायिक्रमाम्भोजसेवम् ॥१॥ गृहस्थो बभासे कलाशिल्पसारं, क्रमात् केवली यश्च धर्मप्रकारम् । स अव प्रभुः सर्वलोकोपकारी, न चान्यस्ततो ज्ञाननैर्मलल्यधारी ॥२॥ महाशुद्धसिद्धान्तमध्ये प्रसिद्धं, प्रतीतं पुराणेषु शोभासमृद्धम् । गतं वेदवेदान्तशास्त्रेङवदातं, यदीय चरित्रं न च क्वापि मातम् ।।३॥ अनन्तं पुनन्तं जनं भक्तिमन्तं, हरन्तं दुरन्तं प्रमाद स्फुरन्तम् । जिनं नाभिभूपालवंशावतंसं, श्रये तं शरण्यं शिवाम्भोजहंसम्॥४॥ कलाकेलि-सर्पप्रणाशे सुपर्णः, सुवर्णोपमानोल्लसद्देहवर्णः। वृषाङ्कः सुखाकूरमेघः सुरम्यं, युगादीधरो मे प्रदत्तां सुसाम्यम् ॥५॥
(161) अथ श्री अजितनाथजिन चैत्यवंदनः कुशल कानन-पुष्टि-बलाङ्गकं, भवदवानल-शान्तिबलाहकम् । अजिततीर्थपतिं श्रितवत्सलं, भजत भव्यजनां! विगतच्छलम् ॥१॥ विमलकेवलबोध-कलाधरं, भविकलोक-चकोर-कलाधरम्। करिवरांकित-पादपयोरुहं, नम जिनं जितशत्रुतनूरुहम् ।।२।। विजयिनी जननी ननु गर्भगे, व्यजनि यत्र बुधैः सदिदं जगे । मृगपतौ सबलेङन्तरमाश्रिते, गिरिगुहा किल कैः परिभूयते? ॥३॥ अपि गदा-युध-चक्रि-पुरंदर, स्थिर-पराक्रम-भङ्ग-करः स्मरः। सुकृतिभिः किल यस्य जगत्पते, जटिति नामबलादपि-जीयते ॥४॥ सततमक्षयमोक्षपदं श्रितः, स्फुर-दनन्तचतुष्टय-शोभितः। अजिततीर्थकरो मम मङगलं, दिशतु शाश्वतसौख्यमलं फलम् ॥५॥