________________
“अथ श्रीसौभाग्याष्टेत्तरशतनामस्तोत्रम्" । " संकल्पः" अयेत्यादि मम श्री राजराजेश्वरी महात्रिपुरसुंदरी देवताप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्धर्थ श्रीसौभाग्याष्टोत्तर शतनामस्तोत्रपाठाख्यं कर्म करष्ये ।। ___ अस्य श्रीसौभाग्याष्टोत्तरशतनाम स्तोत्रमन्त्रस्य आनंदर्भखऋषिः । अनुष्टुप्छदः । श्री महात्रिपुरसुंदरी देवता । ऐं बीजं । सौःशक्तिः । क्लीं कीलकम् । श्री महात्रिपुरसुंदरी प्रसादसिद्धर्थे पाठेविनियोगः ।। ऋष्यादिन्विन्यस्य ।। मूलेन द्विरावृत्या करषडंग विधाय ध्यायेत् । यथा__आनंदभैखऋषेय नमः शिरसि नम अनुष्टुप्छद से मुखे । श्री महात्रिपुरसुंदरी देवतायै नमः हृदये । ऐ बीजाय नमः गुह्म । सौः शक्तये नमः पादयोः । क्लीं कोलकाय नमः नामौ । मम श्री महात्रिपुरसुदरीप्रसादसिध्यर्थे पाठे विनियोगाय नमः सर्वांगे । कूटत्रयेण द्विरावृन्या करषडंगौ ॥
। ध्यानम् ॥ बालार्कमंडलाभासां चतुर्बाहु त्रिलोचनाम् ।
पाशांकुशधनुर्बाणा धारयंती शिवां भजे ॥ इति ध्यात्वा मानसः संपूज्य योनिमुद्रयां प्रणमेत् ।
॥ अथ नमोन्तसौभाग्याष्टोनरशतनामावलि ॥ ॥संकल्पः॥ अद्येत्यादि० मम श्रीराजराजेश्वरोमहात्रिपुरसुंदरीदेवता सिद्धिद्वारा सर्वाभीष्टसिद्धर्थ सौभाग्याष्टोत्तरशतनामभिः अमुकव्यसमर्पण करिष्ये ।
अस्यश्री सौभाग्याष्टोत्तरशतनाम मालामंत्रस्येत्यादि पूर्ववत् ऋष्यादिन्यासान्विधाय करषडंग कृत्वा बालोकतध्यात्वा मानसोपचारैः संपूज्य योनिमुद्रयाप्रणम्य नामानिपठेत् ॥