________________
युक्तिकल्पतरौ -
भोजोऽपि -
वास्तुखण्डाज-* रूपःस्यात् यथार्थेर्नामभिः स्वकैः । यमद्वारासमारभ्य यावदद्दारमिष्यते ॥ २८८ ॥
तद्यथा, -
मृत्युर्भयं स्थिरश्चण्डो धनं विभव एव च ।
वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥ ३०० ॥ यमनैऋत-तोयेश वायु-यक्षेश-शङ्कराः । इन्द्रोरह्निरितिप्रोक्ता विभागाणामधीश्वराः ॥ ३०१ ॥ मृत्यौ कारालयं कुर्य्यांत् भय-स्थानेच पत्तयः । स्थिरे सहचरान क्षेत् चण्डे वाजि - गजादयः ॥ ३०२ ॥ धनेशान्यादिकं ( १ ) रक्षेत् विभवे कोष -रक्षणम् । राजपट्टे * भवेद्दौरः तापे कवि (२) ब्रवालयेत् ॥ प्राचीर - प्रतिभागान्ते ( ३ ) इति भोजस्य सन्मतम् ॥ ३०३ इति श्रीभोजराजोये युक्तिकल्पतरौ राजग्गृह-युक्ति: ॥
•*------
तत्र वास्तुम्लब - लक्षणम् ।
वास्तु-मानेन नियमो ग्टह-मानेन निर्णयः । पूर्व्वलवो वृद्धिकरो धनदश्वोक्तर-प्लवः ॥ ३०४ ॥
(१) धनधान्यादिकं इति (क ) - (ग) पुस्तक पाठः । (२) कश्चिन्नरा (चा) लयेत् इति (ख) पुस्तक पाठः । (३) प्राचौर भाग्यन्ते इति (ख) पुस्तक पाठः ।
अन: शङ्गः, पद्ममिति वा
† राजपट्टश्च पञ्चरत्वान्तर्गतमेकग्नम् इति गौड़ाः । यस्मिन्नासने पट्टाख्ये नृपमहिष्योरभिषेको भवति तदेव राजपट्ट इति केचित् ।
नीलकान्तमणिरित्यन्य े देवीषुरावे तु
अन्यथास्ति पट्टलक्षणम् ।