________________
अवतरणिका ।
100....
........ 1 अन
इह खलु भोज-भूपालोऽशेषशास्त्र-विशारदः निखिलनृपतिमुकुटाभरणो धारानगरीनाथः । एतन्नाम्नाऽन्येपि प्राचो नृपाला: पूर्वमनेके आसन् । तथाच ऋग्वेदे * “भोजायाखं संमृजन्त्याशुं भोजायास्ते.. • भोजस्येदं पुष्करिणीव वेश्म ”. दक्षिणा नाम प्रजापतेर्दुहिता, तया सूक्तमात्मनः स्तुति सम्बन्धं दृष्टम् । तत्रैषा जगती दाट प्रशंसा । 'भोजाय' राज्ञे 'अश्वं आशुम्' शीघ्रम् 'सम्प्रजन्ति' संमार्जयन्ति - स्नापयन्ति भृत्याः । किञ्च - भोजाय उद्दहनार्थं अन्यान् वरानपास्य 'शुम्भमाना' स्खलङ्कृता शोभमाना-‘कन्या' 'आस्ते' स हि तामर्हतीत्यभिप्रायः । किञ्च, भोजस्य 'इदं' ' वेश्म' गृहं परिस्कृतम्, 'पुष्करिणी' 'देवमाना द्रव' पुष्करेदैवतं विमानमिव... । इति निरुक्त देवतकाण्डवृत्तौ श्रीमहुर्गाचार्य्याः । नायं वैदिको भोजोऽस्य प्रणेता धाराधौशो वा । एवं महाभारते + पुराणे च भोजः भोजकट- देशश्व प्रख्यातोऽस्ति ।
........
ऋक् सं ८|६|४|५| निरुक्त्रे अ: १, खः ३ ।
+ महाभारते आदिपर्वणि तृतीयाध्यायें, — द्रच्युतनयानां नाम भोज इत्यासीत् । कुन्त्याश्च पालक-पिता, अस्य तु नाम कुन्तीभोज इति । जरासन्धाधीन जनैकनृपतिः । अयोध्यायां कोऽपि नरेश स्तन्नाम्नासीत् । तथैवोत्कलदेशे कोऽपि नृपतिः । वङ्गदेशे तन्नाम्ना वयो नृपाला आसन् । ऐत्पुरीय प्राचीनलेखे भोजनाम्ना नरेश आसीत् । तथैव कान्यकुने तन्नाम्ना नरपाल आसीत् । इति डाक्तरराजराजेन्द्रलाल मित्रेणोक्तम् । एतम्मतेऽपि