________________
यानयुक्तिः ।
भोजस्तु,- — चतुर्भिर्वाहक ईण्डैः षड् भिः कुम्भैः सुसंस्थितैः । स्तम्भैरष्टाभिरुदितं चतुर्होलमनुत्तमम् ॥ ४२ ॥ तद्भेदा जयकल्याण वीर - सिंहा यथाक्रमम् । चतुर्व्विधानां भूपानां चतुर्होला: प्रकाशिताः ॥ ४३ ॥ त्रिहस्त- सम्मितायामो दिहस्त परिणाहवान् । हस्तद्दयोन्नतः प्रोक्तश्चतुर्होलो (लो) जयाख्यया ॥ ४४ ॥ चतुर्हस्ताय तो यस्तु सान्दस्तदन्यथा । चतुर्होलः समाख्यातः कल्याणस्तावदुन्नतः (१) ॥ ४५ ॥ पञ्चहस्तायतो व (य) स्तु विहस्तपरिणाहवान् । तावदेवोन्नतो वीर (२) चतुद्दल उदाहृतः ॥ ४६ ॥ आयामपरिणाहाभ्यां चतुर्हस्तमितो हि यः । चतुर्होलो ह्ययं सिंहस्तदर्डेनोन्नतः शुभः ॥ ७ ॥ सर्वोऽथ द्विविधः प्रोक्तः सच्छदिश्चापि निम्बदिः । श्राद्यः समरवर्षासु परः (च) केलिघनात्यये ॥ ४८ ॥ सर्व्वेषामेव काष्ठानां दण्डः स्याद्वज्जवारणः । चन्दनेनैव घटना सर्व्वेषामुपयुज्यते ॥ ४८ ॥ लोमजं सर्व्ववस्त्रेषु (३) कनकं सर्व्वधातुषु । कुम्भश्च पद्मकोषश्च गिरिश्चेति यथाक्रमम् ॥ ५० ॥ वैदेशानां महोन्द्राणां चतुर्होलेषु विन्यसेत् । दर्पणञ्चार्द्धचन्द्रश्च हंसः केकी शुको गजः ॥
(१) स्तावद्दुर्लभः इति (क) पुस्तक पाठः । (२) धीरैः इति (ख) पुस्तक पाठः । (३) शस्त्रेषु इति (ग) पुस्तक पाठ: ।
२१८