________________
२.४
वषयुक्तिः ।
. अथ वृषभदोषाः । व्यङ्गो विवर्णो विषमः खित्री धूमश्चल खरः । एते सप्त महादोषा वृषमाणामुदीरिताः । ६० ॥ विषाणो विषमौ यस्य खुराश्च विषमास्तथा। नेत्रप्रा(का)न्तेऽथ वा गात्रे पञ्जर वैकतं भवेत् ॥ ६१ ॥ व्यङ्ग इत्येष कथितो धनधान्य-विनाशकः । पूबाईमन्यवर्णन्तु पराईञ्चान्यवर्णकम् ॥ १२ ॥ पृष्ठ क्रोड़ो विवर्णो वा विवर्णः कुलनाशनः । पराधमुव्रतं यस्य पूर्वाञ्चाति नीचकम् ॥ ६३ ॥ गच्छतश्चरणौ लग्नौ शब्दायते खरखरः (१) । विषमो नाम वृषभः सम्पत्तिक्षयकारकः ॥ ६४ ॥ हिमकुन्देन्दुसङ्काशा गात्रेषु लोमविन्दवः । वित्री नाम महादोषी दूरतस्तं परित्यजेत् ॥ ६५ ॥ शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे दृशौ। कपिल: पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ६६ । दन्त शृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् । मुष्को वा (२) चलते यस्य स चल: कुलनाशनः ॥ ६७ ॥ आवर्ताः शुक्तायो रेखा विषमाश्च विसंस्थिताः । न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ ६८ ॥ गुदान्मेद्रान्तरे यावदेखा व्यक्तव दृश्यते । विस्तृत विषमे घोण(रे) जिह्वा चैवा(व)सिता भवेत् ॥ ६८ ॥ स खरो दूरतस्त्याज्यो भत्तः सर्वार्थ-नाशनः ।
खल्पता दीर्घरोमत्वं क्षोणताभारवाहिता ॥ ७० ॥ (१) खरः खरः इति (क) पुस्तक पठः । (२) मुक्षोरा इति (ख) पुस्तक पाठः ।