________________
२०४
• युक्तिकल्पतरोविरूपाण्युगतानीव मण्डली कुलनाशनः । तानि खेतानि यस्य स्युः खित्री स धननाशनः ॥ १४ ॥ हृदये उदरे चैव बिके पूच्छस्य मूलतः । गुदे मेढ़े पदे चैव आवर्तन हतश्रियम् ॥ १५ ॥ योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (१)। गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः । अपि सर्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ १६ ॥ राष्ट्र धनं कुलं सैन्यं मैत्रदारान् तथा प्रजाः । क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ १७ ॥ तत्रापम्रियते लोकस्तत्र वनभयं भवेत्। व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ १८ ॥ भृशं सन्ताद्यमानस्तु पादेकं यो न गच्छति । पृष्ठोदरं समात्य रेखा रक्तासमा यदि ॥ १८ ॥ न्यस्ताग्रिमपद स्थाने पश्चात् पातः पदे यदि । अपि सर्वगुणैयतो राष्ट्रहायं गजाधमः ॥ २० ॥ राष्ट्रादपाक्रियतेऽयं भूभुजा श्रियमिच्छता। राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंक्षयम् ॥ २१ ॥ पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ । पञ्जरो दृश्यते भग्न एको वाष्टौ (२) इयोऽथवा ॥ २२ ॥ दन्तौ वा चलतो यस्य किं युवान (३) प्ररोहतः । कुम्भौ वा विषदौ यस्य मुषलो स गजाधमः ॥ २३ ॥
(१) श्रुतम् इति (क) पुस्तक पाठः । (२) राष्ट्रौ इति (ख) पुस्तकपाठः । (३) किमु वान इति (ग) पुस्तक पाठः ।