________________
विवाह
[ दूसरा प्रकरण
एवं पितामहादिभिरपि पितृद्रारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयव न्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरपि एक शरीरावयवान्वयात् । तथा पितृव्य पितृष्वस्त्रादिभिरपि । तथा पत्यासह पत्न्या एकशरीरारम्भकतया । एवं भ्रातृभाय्र्याणा मपि परस्परमेकशरीराख्यैः सहेक शरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशररीरावयवान्वयो वेदितव्यः ।
यद्येवं मातामहादीनामपि 'दशाहं शावमाशौचं सपि - गडेषु विधीयते' इत्यविशेषेण प्राप्नोति स्यदेतत् । यदि 'तत्र प्रत्तानामितरे कुर्यः' इत्यादि विशेष वचनं न स्यात् । अतश्च सपिण्डेषु यत्र विशेषवचनं नास्ति तत्रदशाहमित्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीरावयवान्वयेन सापिण्ड्यम् वर्णनीयम् | 'श्रात्माहि जज्ञे आत्मनः' इत्यादि श्रुतेः । तथा 'प्रजामनुप्रजायसे' इति च । स एवायं विरूढः प्रत्यक्षेणोपलभ्यते' इत्याद्यापस्तम्ब वचनाच्च । तथा गर्भोपनिषदि । 'एतत् पादकौशिकं शरीरं त्रीणि पितृतस्त्रीणि मातृतः । अस्थि स्नायुमज्जानः पितृतः त्वङ्मांसरुधिराणि मातृतः' इति । तत्र तत्रावयवान्वय प्रतिपादनात् । निर्वाप्य प ण्डान्वयेन तु सापिण्ड्ये मातृसन्ताने भ्रातृपुत्रादिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्याऽङ्गीकारेण रूढिपरिग्रहे श्रवयवशक्तिस्तत्र तत्रावगम्यमाना परित्यक्ता स्यात् । परम्पश्यैक शरीरावयवान्वयेन सापिण्ड्ये यथा नाति प्रसङ्गस्तथा