________________
सर्वारंभेषु निष्कामो यश्चरेद्बालवन्मुनिः । न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्माणि ।। २४० ।। स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्निस्तर्षमानसः ।। २४१ ।। क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्येव सर्वदा ।। २४२ ।। स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः । अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ।। २४३ ॥ बहुनात्र किमुक्तेन ज्ञाततत्वो महाशयः । भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ।। २४४ ।। महदादि जगद्वैतं नाममात्रविजृम्भितम् । विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ।। २४५ ।।