________________
अष्टावक्र उवाच ।
अकुर्वन्नपि संक्षोभात् व्यग्रः सर्वत्र मूढ़धी । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ।। २३४ ।। सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शांतधीः ।। २३५ ।। स्वभावाद्यस्य नैवार्तिलोकवदव्यवहारिणः । महाहृद इवाक्षोभ्यो गतक्लेशः सुशोभते ।। २३६ ।। निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ।। २३७ ।। परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता ।। २३८ ।। भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थ्यादृष्टिरूपिणी ।। २३९ ।।