________________
क्वात्मनो दर्शनं तस्य यदृष्टमवलंबते। धीरास्तं तं न पश्यंति पश्यंत्यात्मानमव्ययम्।।२१६।। क्व निरोधो विमूढ़स्य यो निर्बधं करोति वै। स्वारामस्यैव धीरस्य सर्वदाऽसावकृत्रिमः।।२१७।। भावस्य भावकः कश्चिन्न किंचिद्भावकोऽपरः। उभयाभावकः कश्चिदेवमेव निराकुलः।।२१८।। शुद्धमद्वयमात्मानं भावयंति कुबुद्धयः। न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः।। २१९।। मुमुक्षोर्बुद्धिरालंबमंतरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा।। २२०॥