________________
अष्टावक्र उवाच
निर्वासनो निरालंबः स्वच्छंदो मुक्तबंधनः। क्षिप्तः संसारवातेन चेष्टते शुष्कपर्णवत्।।१९७॥ असंसारस्य तु क्वापि न हों न विषादता। स शीतलमना नित्यं विदेह इव राजते।।१९८॥ कुत्रापि न जिहासाऽस्ति नाशो वापि न कुत्रचित्। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः।।१९९।। प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता।।२००। कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिंतानुरोधी यः कुर्वन्नपि करोति न।।२०१।। अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते॥२०२।। नानाविचारसुश्रांतो धीरो विश्रांतिमागतः। न कल्पते न जानाति न शृणोति न पश्यति।।२०३।।