SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच । क्व मोहः क्व च वा विश्वं क्व ध्यानं क्व मुक्तता । सर्वसंकल्पसीमायां विश्रांतस्य महात्मनः । । १९० ।। येन विश्वमिदं दृष्टं स नास्तीति करोति वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति । । १९१ । । येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिंतयेत् । किं चिंतयति निश्चिन्तो द्वितीयं यो न पश्यति । । १९२ । । दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ । उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् । । १९३ ।। धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् । न समाधिं न विक्षेपं न लेपं स्वस्थ पश्यति । । १९४ । । भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः । नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता । । १९५ ।। प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः । यदा यत्कर्त्तुमायाति तत्कृत्वा तिष्ठतः सुखम् । । १९६ ।।
SR No.032112
Book TitleAshtavakra Mahagita Part 04
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy