________________
अष्टावक्र उवाच।
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किंविजानाति किंव्रते च करोति किम्।।१८४।। अयं सोऽहमयं नाहमिति क्षीणा विकल्पनाः। सर्वमात्मेति निश्चित्य तूष्णीभूतस्य योगिनः।।१८५।। न विक्षेपो न चैकाग्रयं नातिबोधो न मूढ़ता।' न सुखं न च वा दुःखमुपशांतस्य योगिनः।।१८६।। स्वराज्ये भैक्ष्यवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः।।१८७।। क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वंद्वैर्मुक्तस्य योगिनः।।१८८॥ कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवनमुक्तस्य योगिनः।।१८९।।