________________
॥ श्रीभ्रातृचन्द्रसूरिषट्पदी ॥ "ब्रजराज आज साँवरो बंसी वजा गयो” इत्यनेन रागेण गीयते. श्रीभ्रातृचन्द्रसूरिराजमर्थदायकं । भजस्व हे सखे ! गुरुं विरागिनायकम् ॥टेर॥ संसारमेतमुज्झितुं समीहसे यदा । मुक्तिं च यातुमिच्छसि प्रमोदतस्तदा॥श्रीभ्रातृ०॥१ प्रवेशमीहसे यदा धियो निवेशने । तदा मनः प्रसारयेममोपदेशने॥श्रीभ्रातृचंद्र॥२॥ करालकाल एष संनिधौ समागतः । किमीक्षसे विनश्वरं फलं हि रागतः॥श्रीभ्रातृचंद्र॥३ विहाय कर्म शास्त्रमर्म धर्मकर्मणे। ग्रहीतुमीहसे यदा तदा सुशर्मणे ॥श्रीभ्रातृचंद्र॥४॥ श्रीपार्श्वचन्द्रसूरिराजवंशदीपकं । सुमुक्तिराजधानिकाध्वनःसमीपकम्॥श्रीभ्रातृ०॥५ तपःप्रकर्षनिर्जितोरुपञ्चसायकं । महानिदेशनासुधारसप्रपायकम् ॥श्रीभ्रातृचंद्र ॥६॥ नित्यानन्देन रचिता भाईलालेन गापिता । आचार्यभ्रातृचन्द्रस्य षट्पद्यास्तां मुखाम्बुजे ॥७॥ १ समीपयतीति समीपकस्त-मुक्तिराजधान्याः सामीप्यदर्शकम्.