________________
( ३४७ ) सं० १९२१ शा० १७८६ प्र० माघ० शु० सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे कोठारा नगर वास्तव्य उशवंशे लघुशाखायां गांधि मोहोता गोत्रे सा० श्री नायक मणसि भार्या बाई हीरबाई कुक्षे पुत्ररत्न श्री केशवजी सिद्धक्षेत्रे श्री वर्धमान जिनबिंबं भरापितं गच्छनायक श्री रत्नसागरसूरीश्वराणां प्रतिष्ठितः ॥ श्री ॥
( ३४८ )
॥ श्री ॥ ॐ नमः॥ बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधिशाः आर्यरक्षितसूरयः ॥१॥ तत्पदृपंकजादित्याः सूरिश्रीजयसिंहकाः । श्रीधर्मघोषसूरोंद्रा महेंद्रसिंहसूरयः ॥२॥ श्रीसिंहप्रभसूरीशाः सूरयो जिनसिंहकाः । श्रीमद्देवेंद्रसूरीशाः श्रीधर्मप्रभसूरयः ॥३॥ श्रीसिंहतिलकाद्वाश्च श्रीमहेंद्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्याः बभूवुः सरयस्ततः ॥४॥ समप्रगुणसंपूर्णाः सूरिश्रीविजयकीर्तयः । तत्पट्टेऽथ सुसाधुश्रोजयकेशरसूरयः ॥५॥ श्रीसिद्धांतसमुद्राख्याः सुरयो भूरिकीर्तयः । भावसागरसूरींद्रास्ततोऽभूषन् गणाधिपाः ॥६॥ श्रीमद्गुणनिधानाख्याः सूरयस्तत्पदेऽभवन् । युगप्रधानाः श्रीमंत सरिश्रीधर्ममूर्तयः ॥७॥ तत्पट्टोदयशैलाप्रप्रोद्यत्तरणिसनिभाः । अभवन्सुरिराजश्रीयुजः कल्याणसागराः ॥८॥ श्रीअमरोदधिसुरींद्रास्ततो विद्यासूरयः । उदयार्णवसुरिश्व कीर्तिसिंधुमुनिपतिः ॥९॥ ततः पुण्योदधिसूरिराजेंद्राणवसरयः । मुक्तिसागरसूरींद्रा बभूवुः गुणशालिनः ॥१०॥
(૩૪૮) શ્રી શત્રુંજયગિરિ ઉપર શેઠશ્રી નરશી કેશવજીએ બંધાવેલી ટુંકને શિલાલેખ.
પાલીતાણામાં શેઠશ્રી કેશવજી નાયકે બંધાવેલી ધર્મશાળામાં પણ એ જ શિલાલેખ છે.