________________
: २८ :
चतुर्मासी च संघस्या, -नघस्याग्रतोऽधिकात् । श्रद्धय प्रभुभक्त्या च नानाधर्मप्रवृत्तिभिः ॥२६२॥ समाप्तायां चतुर्मास्यां सच्छास्त्रस्य प्रचिन्तनात् । अन्यदेशोपकाराय, विजहुश्व गुणोत्तमाः
॥२६३॥
त्रिभिर्विशेषकम्
इतिश्री अंतरिक्षपार्श्वनाथप्रतिमोत्पत्तिः, तत्प्रतिमा स्पर्शिजलप्रभावतः श्रीपालनृप निरामयत्वं, जलाशयतः प्रतिमाप्रादुर्भावः श्रीअभयदेव - सूरिभिर्नव्यजिनालये विहिता - प्रतिष्ठा, भूमिप्रतिमयोरन्तरं इत्यादिवर्णनमयः, तपगच्छाधिपति कविकुलकिरीटसूरि सार्वभौमव्याख्यानवाचस्पति, कटोसणा दिनृपवरप्रतिबोधक - इलादुर्गादितीर्थोद्धारक - जैनाचार्य - श्रीमद्विजयलब्धिसूरीश्वराणां पट्टप्रभावककविकुलकोटीर- धर्मदिवाकर - जैनाचार्य श्रीविजयभुवनतिलसूरिभिः संरब्धः प्रथमः खण्डः समाप्तः ॥