________________
:१०३ :
घनश्यामा लसत्तेजो-मयी शश्वत् सुभास्वरी । श्रेष्ठिन्या कारिता भाति, चमत्कारकरी नृणाम् ॥९॥१॥
॥ त्रिभिर्विशेषकम् ॥ तथा स्थापयितुं देव-कुलिकासु पसणि च । पञ्चविंशतिबिम्बानि, चानीतानि तथाऽत्र वै ॥९३२॥ गर्भागारे शुभामारे, अन्याश्च प्रतिमाः भुभाः । स्थापयितुं समायाताः, श्वेतरजनसनिभाः ॥९३३॥ चैत्यपृष्ठेऽपि चाकृत्याः, तिस्रस्तु प्रतिमा क्राः । स्थापयितुं समानीताः, दर्शकानन्द-दायिकाः ॥९३४॥ भव्ये शिखरमध्यस्थे, चतुर्मुखे जिनालये । स्थापयितुं समानीताः, चतस्त्रः प्रतिमाः शुभाः ॥९३५॥ सर्वेषां देवबिम्बानों, सुविधिनोपयोगतः । कृतं निर्मापणं श्रेष्ठं, कलाकलापकोविदः ॥९३६॥ सुतीर्थे तारके भव्ये, चान्तरिक्षेऽतिरम्यके । जयपुरात्समानीताः, प्रतिमाः क्षेमपूर्विका. ॥९३७॥ सर्वा अपि सुदक्षैश्च, भक्तैः श्रद्धासमन्वितैः । कुसुमाक्षतमुक्ताभिः, सत्कृताः प्रतिमाः समाः ॥९३८॥ वर्धापिताश्च ता रम्याः, शीरपुरे प्रवेशिताः । श्रावक श्राविकाभिश्च, उच्चजयजयारवैः ॥९३९॥