________________
श्री मल्लिषेणाचार्यकृत-सरस्वती-मन्त्रकल्पः ।
नैवेद्यदीपादिभिरिन्द्रसङ्खयैः सुवर्णपादावभिपूज्य देव्याः । स्ववामदेशस्थितसव्यंहस्तो' मन्त्री प्रदद्यात् सहिरण्यमम्भः ||७५|| विद्या मयेयं भवते प्रदत्ता त्वया न देयान्यदृशे जनानां । "तच् श्रावयित्वा गुरुदेवतानामग्रेषु विद्यां विधिना प्रदेया ॥ ७६ ॥
आज्ञाक्रमः
कृतिना मल्लिषेणेन जिनसेनस्य सूनुना । रचितो भारतीकल्पः शिष्टलोकमनोहरः ॥७७|| सूर्याचन्द्रमसौ यावन्मेदिनीभूधरार्णवाः । तावत् सरस्वतीकल्पः स्थेयाच्चेतसि धीमताम् ||७८|| इति श्रीमल्लिषेणाचार्यकृत श्री सरस्वतीमन्त्रकल्पः ||
श्रीमल्लिषेणसारस्वतविधिरयम् -
प्रथमः कृतस्नानः समौनः प्रातः श्रीभारत्याः पूजांकृत्वा विहिता - कक्षारोदनः ततोऽनन्तरं सन्ध्यासमये पुनः स्नात्वा सर्वव्यापारवर्जितो भूत्वा शुचिः श्वेतं वस्तु ध्यायेत् ।
ॐ ह्रीँ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा ।
१५
भूमिशुद्धिमन्त्रः
ॐ ह्रीं वां नमो अरिहंताणं अशुचिः शुचीर्भवामि स्वाहा ।
आत्मशुद्धिमन्त्रः ॥ ॐ ह्रीं वद वद वाग्वादिनी हाँ हृदयाय नमः । ह्रीं शिरसे नमः शिखायै नमः | हाँ कवचाय नमः । हृः अस्त्राय नमः । इति सकलीकरणं विधातव्यम् ।
ततोऽमृतमन्त्रेण सरस्वत्याः पूजा क्रियते । ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतवाहिनी ! अमृतं स्त्रावय स्त्रावयं सं सं (ऐं ऐं) क्ली क्ली ब्लूं (ब्लू) द्रां द्रीं द्रावय द्रावय
स्वाहा ।
अथ मण्डलस्थापना विधीयते
ॐ ह्रीं महापद्मयशसे योगपीठाय नमः
ॐ ह्रीं अमले ! विमले ! सर्वज्ञे ! विभावरि ! वाणीश्वरि ! कलम्बपुष्पिणि स्वाहा !
-
पीठस्थापनमन्त्रः ॥
प्रतिष्ठामन्त्रः
१ हस्तौ । २ जनाय । ३ प्रदधातु । ४ ॐ हृ ५ ह्रीं पाठ वडोहरानी अतमां नक्षी, ॐ नमो वद वदं सूनी प्रत छे.