________________
७१
૩૫ महामन्त्रमयं भारतीस्तोत्रम् | 23. . म. प्रत. नं. १८१३८, १३१७१,१४२४५, १२२२3..
स्त्रवि छ ।1 :- पास.. शंणेश्१२सार 5२ सेवा ...... राजते श्रीमती भारती देवता, शारदेन्दुप्रभाविभ्रमं बिभ्रती। मञ्जमश्रीरझङ्कारसञ्चारिणी, तारमुक्तालताहारशृङ्गारिणी ||१|| चारुचूलं दुकूलं दधाना घनं, केतकीगन्धसंदर्भितंचन्दनम्।। मालतीपुष्पमालालसत्कन्धरा, कुन्द-मन्दार-बन्धूकगन्धोद्धुरा ||२ स्फारशङ्गार विस्तारसञ्चारिणी, रौद्रदारिद्रयदौर्भाग्य निर्नाशिनी। शोभना लोकना लोचना नन्दिनी, कोमलालापपीयूषनिस्यन्दिनी ॥३॥ सारकर्पूरकस्तूरिकामण्डिता, सर्वविज्ञानविद्याधरी पण्डिता। हस्तविन्यस्तदामाक्षमालाम्बुजा, कङ्कणश्रेणिविभाजितश्रीभुजा ||४|| राजहंसाङ्गलीलाविमान स्थिता, वीणया लालिता पुस्तकालङ्कृता ।। भास्वरा सुस्वरापक्वबिम्बाधरा, रूपरेखाधरा दिव्ययोगीश्वरा ||५|| सर्व कामप्रदा सर्वगा सर्वदा, कल्पवृक्षस्य लक्ष्मी हसन्ती सदा।। त्वत्प्रसादाद् विना देहिनां कागतिः, कामतिः का रतिः का धृतिः कास्थितिः
कम पञ्चभिः कुलकम् ।।६।। लाटकर्णाट काश्मीरसंभाविनी, श्रीसमुल्लाससौभाग्यसंजीवनी। मेखलासिञ्जितैरुगिरन्ती प्रियं, सेवकानाममेयां ददामि श्रियम् |७ कस्य किं दीयते कस्य किं क्षीयते, कस्य किं वल्लभं कस्य किं दुर्लभम् ?। केन को बाध्यते केन क: साध्यते, केन को जीयते को वरो दीयते ||८|युग्मम्। भारति! यस्तव पुरतः स्तोत्रमिदं पठति शुद्धभावेन। स भवति सुरगुरुतुल्यो मेधामावहति चिरकालम् ||९|| आर्या।
इति महामन्त्रमयभारतीस्तोत्रं सम्पूर्णम् ॥ भूण मंत्र :- ॐ ह्रीं हंस प्रत्यङ्गिरे ! हस्क्ली महाविद्ये सर्वशंकरि! मम शान्तिं कुरु कुरु ऐं ह्रीं स्वाहा ॥
१ चूडं । २ दधानं । ३ निहार संहार । ४ दुःखाद्रि विद्राविणी ! ५ विमाने । ६ सर्वगा सर्वदा सर्व कामप्रदा । ७ यत्प्रसादं । ८ का धृतिः का रतिः । ९ ददाना - सेवकानामिवाहं ददामि श्रियं । १० सततमिव । 0373376