________________
CCT/G2046406
dd
૨૭
श्री सरस्वती स्तोत्रम् |
ने.वि. ४. ज्ञा. लं. सूरत प्रत नं. २७६ अनुष्टुप.
नमामि भारतीं देवीं चतुर्भुजा महाबलां । काश्मीरे वसति नित्यं ब्रह्मरूपा सरस्वती ||१||
बालानां ज्ञानदात्री च दुर्बुद्धिध्वंसकारिणी । त्रिनेत्रा पातुमे देवी वीणापुस्तकधारिणी ||२|| श्वेताम्बरा श्वेतवर्णा श्वेतचन्दनचर्चिता । हंसस्य वहते नित्यं पद्मासनोपवेशिता ||३|| मालिकां दक्षिणे हस्ते वामहस्ते कमंडलुं । संयुक्तेन्दुं च मुकुटे मुक्ताहारै र्विभूषिता ||४|| परिहीतान्यलंकारं तस्यद्युतिप्रकाशिता । सौन्दर्येण समायुक्ता सर्वाभरणभूषिता ||५|| ओंकारं आदिमं बीजं मायाबीजं समीरितं । तृतीयं लक्ष्मीबीजं च वाग्वादिनी चतुर्थकं ॥६॥ ॐ ह्रीं श्रीं च क्लीं मंत्रं वाग्वादिनी च संयुतां । एकलक्षं जपेत्मंत्रं स स्याद् वाचस्पति समः ||७|| इत्यनेन प्रकारेण सरस्वत्या समं जपेत् । त्रिसन्ध्यं पठते नित्यं तस्य कंठे सरस्वती ॥८॥ ज्ञानार्थी लभते ज्ञानं अर्थार्थी लभते धनम् । मोक्षार्थी लभते मोक्षं रामार्थी लभते स्त्रीयम् ||९|| इति सरस्वती स्तोत्रं सम्पूर्णम् ।