________________ R- 52-53 5555====-SER श्रीगुरुचरणार्पण-पत्रम् / ==ssessog HESESEGESSES असकौ हि गुरुतरसंसृतिप्रवर्द्धिको शिथिलाचारिणी श्रीपूज्यतामपहाय श्रेयस्करं श्रीवीरपथमाश्रित्य पूर्वजानां विशुद्धं पन्थानं विशुद्ध्या क्रियया प्रदर्य निजविहरणैः सूपदेशैश्च बहून् भव्यान् प्रबोधं प्रबोधं जैनाभासकूपदेशपिञ्जरे निपतिताञ्जनान् स्वीयसदुपदेशैविशुद्धैः श्रवःसुखावहैश्च समुद्धृतिवान् / सार्धशतद्वय्या शरदा जातिबाह्यतां गतवतां चीरोलाऽऽख्यनगरीयश्राद्धा नामनायासेनैवाऽमोघाऽऽत्मोपदेशेन पुनर्जातौ नायितवांश्च, सन्तोषितवांश्च निजाऽसीमया साहित्यसमृद्ध्या विबुधानशेषान् / हृद्यैरागमीयैस्तत्वभृतैर्वचोभिश्चाऽऽर्हताऽनाहतादिसमस्तजनतासु निजां ख्याति प्रथयाञ्चकार / कोरंट-स्वर्णगिरि-भाण्डवपुरीयतीर्थत्रयं समुद्धार्य तत्र प्राथम्यमयाश्चक्रे / ____एवम्भूतसर्वतन्त्रस्वतन्त्र-जगत्पूज्य-सुजनाम्भोजदिवाकराऽऽबालब्रह्मचर्यरतानां योगीन्द्राणाममीषांश्रीमद्विजयराजेद्रसूरीश्वराणां सकल मङ्गलकारि-चरणपङ्केरुहयोरेतद् श्रीयतीन्द्रविहारदिग्दर्शन नामानमैतिहासिकं ग्रन्थं सादरं समर्पयामि / वाचक-मुनियतीन्द्रविजयः। =zeszcze AaseSPSSSES 25-SS Sasases REFess DESESE55 -SEESesy