SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मज़ुलप्रमणितान् मञ्जुलं-मधुरं प्रणितं-भणितिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मञ्जलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमणितत्वादस्येति । ( २५ } 'एत्तो 'त्ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूगतहटिका करतले पर्यस्तितमुखो ध्यापति । [ पृष्ट० १३.] (१३) 'तहा घइस्सामि त्ति थतिष्ये 'कणोयले' त्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । ( १७ ) 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथा यमपीति नवरं-केवलमयं विशेषः अयं हरिणेगमेषिणआराधनायाष्टमं कृतवान् , स तु पूर्वसङ्गतिकस्य देवस्येति, (२०) 'विइण्णं' ति वितीर्णदत्तं युष्माभिरिति गम्यते, [पृष्टः १४. ] (१०-११ ) तसि तारिसगंसी' त्ति त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासित्ता णं पडिबुद्धा जाव'त्ति इत्तो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग'त्ति स्वप्नपाठकानाकारयति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहईत्ति सुखंसुखेन गर्भ परिवहतीति द्रष्टव्यमिति । ( १३-१७ ) 'जासुमिणे 'त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवकं-लोहितबन्धुकं
SR No.023493
Book TitleAntagadanuttarovavaiyadasao
Original Sutra AuthorN/A
AuthorM C Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages354
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy