________________
५६
नारायणभट्टीसहितवृत्तरत्नाकरे
विनिमयविनिहितशकलयुगल - कलितपदविततिविरचितगुणनिचया ॥ श्रुतिसुख दियमपि जगति ञि
जशिर उपगतवति सति भवति खजा ॥४०॥ (१)
इयमेव शिखा यदि विनिमयेन व्यत्यासेन विनिहितं निवेशितं यच्छकलयुगलं तेन कलिता घटिता पदसमुदायकृत सौकुमार्यादिगुणसमुदायवती च, कलितान्तस्य पदादिना कर्मधारयः । श्रुतिसुखकारिणी वेति पूर्ववद्यतिः कार्येति सूचितम् । ञि ञकारे । जशिर इति जकारप्रागुच्चारणे प्राप्ते सति खजा भवति । खजेति यावत् । गुरुद्वयस्य छन्दसि प्रवे'शयितुमशक्यत्वादुक्तिप्रकारोऽयम् । विनिमयविनिहितशकलयुगललघुललितपदविततिरचितेति पाठे युगलान्तस्य लध्वित्यादिना कर्मधारयः । यद्यपि सूत्रकारेण “अर्धे” (पिं. सू. ५ - ३२) इत्यधिकृत्य " शिखैकान्नत्रिंशकत्रिंशदन्ते गु” (पं.स. ५ - ४३) इति " खञ्ज महत्ययुजीति' (पिं.स.५-४४) इति च वदता पूर्वोक्त नियम वदेकोनत्रिंशदक्षरैकोनत्रिंशदक्षररचितक्रमवव्युत्क्रमवत्पादद्वयघटितार्धद्वयवत्यौ विंशत्यधिकशताक्षरे शिखाखजे उक्ते, अत्र तु षष्ट्रयक्षरे एवेति विरोधस्तथापि ग्रन्थान्तरपर्यालोचनयैवमुक्तिः । यद्वा सूत्रकारोक्तशिखाखजाभ्यामेते अन्ये एव सूत्राऽनुक्ते पवात्रोक्ते । सूत्रोक्ते तु चतुर्थेऽध्याये अर्धसमत्वात्स्वयमूह्ये । श्रथवोभयत्रापि शकलशब्दावयववचनत्वात्पादरूपावयवपरौ कृत्वा मूलोदाहरणे चोर्धविपये मत्वार्धसमत्वेऽपि च मात्रानियमात्मकत्वान्मात्रावृत्तप्रकारेणोतिं समाधाय सूत्रानुसारः कार्य इति सर्वं सुस्थम् ॥ ४० ॥
अष्टाव गाभ्यस्ता यस्याः साऽनङ्गisोक्ता । दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ ४१ ॥ (२)
वृत्तरत्नाकरमतेनेदमुदाहरणम् । पिङ्गलमते तु पादचतुष्टयघटितम् । तत्र च प्रथमतृतीयपादयोः २८ श्रष्टाविंशतिलघवः गुरुश्चान्त एकः । द्वितीयचतुर्थपादयोश्च ३० त्रिशल्लघवः श्रन्ते गुरुश्चैकः । तदुदाहरणं छन्दोवृत्तौ द्रष्टव्यम् ।
( १ ) एतदुदाहरणं 'भगवति' इति व्यत्यस्तं पठनीयम् । (२) त्रोदाहरणान्तरं यथा छन्दोवृत्तौ -