________________
भूमिका।
इह खलु दुःखबहुले संसारे निरन्तरं निरतिशयं सुखं परिमागमा. णानां जनानां सुखोपलब्ध्युपायबोधनाय परादिरूपेण भगवती श्रुतिः प्रादुर्बभूव । सा च साङ्गोपाङ्गा सरहस्या सावधानं निषेविता कामधेनुः रिव सर्वमभिलषितं पूरयतीति विदितमिदं विपश्चिदपश्चिमानाम् । अक्षरात्मिका सा
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इत्यादिलक्षणलक्षिता निखिलसंसारमूलरूपिणी निरन्तरमानन्दाभिलाषिभिः सेवनीया सेविता सेव्यते सेविष्यते च । सहृदयहृदयनिवासिनी ललितपदा नानाऽलङ्कारैरलङ्कृता तैस्तैः सहृदयहृदयसंवेदिनीभिर्भावभङ्गीभिरश्चिता सुवृत्तशालिनी रुचिरवर्णवती नवरससम्भृता अमृता. ऽऽत्मकला कविवदनारविन्दावतीर्णा सा कं न खलु सचेतसमानन्दयति। अत एव सहृदयशिरोमणिभिर्मम्मटाचार्य:
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे॥ इत्यादीन्यस्याः प्रयोजनान्युक्तानि । गद्यपद्यभेदेन द्विविधा हि सा। तत्र पद्यशालिनी सा छन्दःशास्त्रज्ञानमन्तरा न निषेवितुं शक्यते इति तदवश्यं शेयम् । ऋगात्मिका सा च पद्यशालिन्येवेति तनिषेवणाय छन्दःशास्त्रज्ञानमपेक्ष्यते इत्यपि विदितं विदुषाम् । अत एव छन्दसा भगवत्याः श्रुत्याः "छन्दः पादौ तु वेदस्य” इत्यादिभिस्तत्र तत्र पादत्वं प्रतिपादितम् । त्रैवर्णिकानामेव च वेदाऽध्ययनेऽधिकारः । स च वेदः साङ्ग एवाधीतः समुपकरोति । वेदाङ्गानि च षट् शिक्षादीनि । तथा च शिक्षायाम्
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥ ... . . शिक्षा घ्राणं तु वेदस्य मुख व्याकरणं स्मृतम् ।।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ इति । .. ' अत एव च्छन्दसामपरिक्षाने प्रत्यवायः श्रयते । तथा च श्रुतिः- "यो ह वा अविदितार्षेयच्छन्दोदैवतविनियोगेन ब्राह्मणेन मन्त्रेण या