SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ _ प्रथमोऽध्यायः। प्रयेण अङ्घयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः॥ तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १४ ॥ प्रथमाघिसमो यस्य तृतीयश्चरणो भवेत् ॥ द्वितीयस्तुर्यवद्वृत्तं तदर्थसममुच्यते ॥ १५ ॥ यस्य पादचतुष्केपि लक्ष्म भिन्नं परस्परम् ॥ तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥१६॥ यस्याङ्घ्रयः पादाश्चत्वारोऽपि तुल्येन लक्षणेन लक्षिता युक्ताः, तच्छन्दःशास्त्रविशारदाश्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं वदन्ति । द्वितीयश्वरणस्तुर्यवञ्चतुर्थवत् । तथा चाधं समं यस्य तदर्धसममित्यन्वर्थसंज्क्षा । यस्य पादचतुष्टयेऽपि परस्परं लक्ष्म लक्षणं भिद्यते तद्विषममाहुः, विगतं समं यस्मादिति व्युत्पत्तः। तत्र समं पथ्यादि, अर्धसमं द्रतमध्यादि, विषम पदचतुरुवादि ॥ १४ । १५ । १६ ॥ तत्र समवृत्तभेदानाह-- आरभ्यैकाक्षरात्पादादेकैकाक्षरवदितैः ॥ पृथक्छन्दो भवेत्पादैावत्षड्विंशति गतम् ॥ १७ ॥ एकाक्षरं पादमारभ्यैकेनाक्षरेण कविना वर्धितैः पादैः कृत्वा पृथग्भिन्न भिन्नं छन्द उक्तादि भवेत् । वृद्ध्यवधिमाह-यावदिति । यावत्षड्विंशति २६ षविंशतिसङ्ख्याकं पादं प्रति गतं गमनं भवति । षड्विंशत्यक्षरपा. दपर्यन्तं वृद्धिर्भवतीत्यर्थः ॥ १७॥ अधिकाक्षरपादस्य छन्दसः संशामाह तदूर्ध्व चण्डदृष्टयादिदण्डकाः परिकीर्तिताः । .. षड्विंशत्यक्षरपादाच्छन्दस ऊवं सप्तविंशत्याद्यक्षरपादं छन्दश्चण्डवृ टयादिदण्डकसंशं भवति । सप्तविंशत्यक्षरादेकैकेन रगणादिना वृद्धिः, न त्वेकैकाक्षरेण । प्रादिपदादर्णवादिः॥ इह शाले विशेषलक्षणेनाऽलक्षितस्य छन्दसः कविभिश्च प्रथ्यमानस्य
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy