SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ - महाकविकालिदासप्रणीतः । श्रुतबोधः। छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते ॥ तमहं सम्प्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥१॥ संयुक्ताचं दीर्घ सानुस्वारं विसर्गसम्मिश्रम् ॥ विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥ एकमात्रो भवेद् हस्वो द्विमात्रो दीर्घ उच्यते ॥ त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥ · यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि ॥ अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥ ४ ॥ आर्यापूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते ! ॥ . छन्दोविदस्तदानी गीति ताममृतवाणि ! भाषन्ते ॥ ५ ॥ आर्योत्तरार्धतुल्यं प्रथमाधमपि प्रयुक्तं चेत् ॥ .. कामिनि ! तामुपगीतिं प्रकाशयन्ते महाकवयः ॥ ६ ॥ आधचतुर्थं पञ्चमकं चेत् ॥ . ... यत्र गुरु स्यात्साक्षरपतिः ॥ ७॥ . अगुरुचतुष्कं भवति गुरू द्वौ ॥. .... घनकुचयुग्मे ! शशिवदनासौ ॥ ८ ॥ तुर्य पञ्चमकं चेद्यत्र स्यालघु बाले !॥ ... विद्वद्भिर्पगनेत्रे ! प्रोक्ता सा मदलेखा ॥९॥ श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् ॥. 'द्विचतुष्पादयोहस्वं सप्तमं दीर्घमन्ययोः ॥१०॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy