________________
॥ श्रीः ॥
केदार भट्टप्रणीतः
वृत्तरत्नाकरः प्रथमोऽध्यायः ।
सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽचितम् ॥ गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ १ ॥ वेदाऽर्थशैवशास्त्रज्ञः पव्येकोऽभूद्ध द्विजोत्तमः ॥ तस्य पुत्रोऽस्ति केदारः शिवपादाऽर्चने रतः ||२|| तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ॥ वृत्तरत्नाकरं नाम बालानां सुखसिद्धये ॥ ३ ॥ पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा ॥ मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥ ४ ॥ षडध्यायनिबद्धस्य च्छन्दसाऽस्य परिस्फुटम् ॥ प्रमाणमपि विज्ञेयं षत्रिंशदधिकं शतम् ॥ ५ ॥ म्यरस्त जम्नगैर्लान्तैरेभिर्दशभिरक्षरैः ॥
समस्तं वाङ्मयं व्याप्तं त्रेलोक्यमिव विष्णुना ॥ ६॥ सवगुर्मो मुखान्तर्लो यरावन्तगलौ सतौ ॥ मध्याद्यौ उभौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ ७ ॥ ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः ॥ गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८ ॥ सानुस्वारो विसर्गान्तो दोर्घो युक्तपरश्च यः ॥ वा पादान्ते त्वसौ ग्वका ज्ञेयोऽन्यो मात्रिको लुजुः ॥ ९ ॥ पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ॥
पुरः स्थितेन तेन स्याल्लघुताऽपि क्वचिद् गुरोः ॥ १० ॥ तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ॥ अपव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥ ११ ॥ अब्धिभूतरसादोनां ज्ञेयाः संज्ञास्तु लोकतः ॥ ज्ञेयः पादश्चतुर्थांशो यतिविच्छेदसंज्ञितः ॥ १२ ॥