SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरकेदारस्तस्य मृनुः शिवचरणयुगाराधनैकाग्रचित्त श्छन्दस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥ १० ॥ कश्यपस्य महर्षवंशे गोत्रे प्रकटः प्रसिद्धो गुणसमुदायो यस्य स ता. दृशः पव्येकाख्यो विप्रो ब्राह्मणोऽभूत् । कीद्वक । शिवो देवता येषां ते शिवपूजकाः शैवास्तत्सिद्धान्तस्य वेत्ता ज्ञाता । शैवागमवेत्तेत्यर्थः । तथा वेदानां तत्त्वार्थस्याऽबोधितस्यार्थस्य बोधे ज्ञाने निर्मलतरबुद्धिस्तस्य पव्येकस्य पुत्रः केदारनामा। कीद्वक् । शिवचरणयुगलसेवामात्रैकाग्रचेतास्तेन केदारेणाभिरामं मनोशं सङ्केपेणैव लक्ष्यलक्षणयोरमिधानात् , ग्रन्थान्तरेभ्योऽतिशयवत् । वृत्तरत्नाकरनामकं छन्दः लक्षणया छन्दःशास्त्रप्रकरणं प्रविरचितं कृतम् । यद्यपि "कर्तरि च" ( पा०स०२-२-१६ ) इति कर्बर्थतजन्तस्य षष्टया सह समासो निषिद्धस्तथापि “जनिकर्तुः प्रकृतिः" (पा०स० १-४-३०) इति ज्ञापकेन निषेधस्याऽनित्यताशापनात् शैवसिद्धान्तवेत्तेतिषष्ठी समासः । केचित्तु तन्नन्तेन समासः इति तन्न तृनो योगे "न लोकाव्ययनिष्ठाखलर्थतनाम" (पा०सू ० २-३-६६) इति षष्ठीनिषेधात् । इति सर्व मनोहरम् ॥ १० ॥ भट्टश्रीनागनाथात्समजनि विवुधश्चाङ्गदेवाख्यभट्टः प्रासोष्टासौ तनूजं रघुपतिनिरतं भट्टगोविन्दसंज्ञम् ॥ विश्वामित्राऽन्ववायाम्बुधिविधुरधिकं वर्धते तत्तनूजो विद्याब्धौ लब्धपारः प्रथितपृथुयशा भट्टरामेश्वराख्यः ॥ नारायणेन सुधिया काश्यां निवसता सता ॥ वृत्तरत्नाकरे टीका तद्भुवा रचिताऽञ्चिता॥ ग्रन्थेऽस्मिन्गुणगणवत्त्वमुच्यते चे स्वं कार्य गुणगणवन्न मन्यते कः ॥ तत्सन्तः शिरसि कृताञ्जलिस्तु याचे ___ शोध्यं तत्सदसदिहोदितं मया यत् ॥ याति विक्रमशके द्विखषड्भू ( १६०२ ) सम्मिते सितगकार्तिकरुद्रे ।। ग्रन्थपूर्तिसुकृतं किल कुर्मो रामचन्द्रपदपूजनपुष्पम् ॥ इति श्रीविद्वन्मुकुटमाणिक्यश्रीभट्टरामेश्वरमरिमूनुनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां प्रस्ताराध्यायः षष्ठः समाप्तः॥ समाप्तश्चार्य वृत्तरत्नाकरः।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy