SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। १५५ अथार्धसमलगक्रिया। अर्धसमे तु विशेषः । द्वयतरार्धसमानां षोडश भेदाः पूर्वोक्तरीत्या । तन्मध्ये प्रथमषष्ठकादशषोडशांश्चतुरो भेदान्हापयेत् । यथा-चतुरक्षरप्रस्तारे एकद्यादिलगक्रियायां कृतायां प्रथमान्त्यौ त्याज्यौ समत्वात् , षष्ठैकादशौ द्विलघुत्ववृत्तसङ्ख्याबोधके षडङके त्याज्यौ । एवं कृते न्यासः ४४४, ततश्चत्वार्येकलघूनि, चत्वारि द्विलघूनि, चत्वारि त्रिलघूनि वृत्तानीति द्वयतरार्धसमभेदा द्वादश । एवमन्यत्राप्येकद्वयादिलघुकान्समभेदानेकद्वयादिलघुकवृत्तसङ्ख्याबोधकाके पातयित्वाद्यान्त्यौ च भेदौ त्यक्त्वाऽवशिष्टाकैरेकद्वयादिलगक्रियाऽर्धसमेषूह्या । इत्यर्धसमलगक्रिया ॥ अथ विषमलगक्रिया । विषमेषु तु यक्षरपादस्य कथ्यते । अष्टाक्षरजातेस्तावदेकह्यादिलगक्रियायां पूर्वोक्तरीत्या कृतायां न्यासः । १।८।२८ । ५६ । ७० । ५६। २८।।१ । अत्र समाधसमरूपत्वात्प्रस्तारकरणोक्तप्रकारेण षोडश भेदा यथास्थानं पात्याः। यथा एकलघवो हेयेषु न सन्ति, द्विलघवश्चत्वारस्तदीयेऽष्टाविशत्यङ्के हेयाः,त्रिलघवो हेयेषु न सन्त्येव, चतुर्लघवः षट सप्तत्यके हेयाः, पञ्चलघवस्तु हेयेषु न सन्त्येव, षटुलघवश्चत्वारोऽष्टाविंशत्यके हेयाः, सप्त लघवो न सन्तीति प्राद्यान्त्यौ चैकाङ्की त्याज्यौ । एवं कृते द्वयक्षरविषमस्य एकद्वयादिलगक्रियाङ्कन्यासः-८ । २४ । ५६ । ६४ । ५६ । २४ । ८। अत्राष्टावेकलघवश्चतुर्विंशतिः द्विलघव इत्यादि पूर्वावत्कथनीयम् । एवमन्येष्वपि विषमेष्वपि शेयम् । इति विषमलगक्रिया॥ सङ्ग्रहश्लोकःछन्दोवर्णमितानुपर्यधरगान्सैकान्मुखाङ्कांल्लिखे देकैकं शिरसि त्यजन्नधरगानूोषु संयोजयेत् ॥ भेदः सर्वगुरुर्मुखे तदनु चैकद्वयादिलध्वन्विता प्रान्ते सर्वलघुः क्रिया लघुगतैवं स्याद् गुरूणामपि ॥ अथ भास्कराचार्योक्तो लगक्रियाप्रकारः। भास्कराचार्यैस्तु लीलाबत्यां लघुगुरुक्रियायां प्रकारान्तरमभ्यधाथि। तदुच्यते-वृत्तपादाक्षरसङ्घाङ्कानेकाद्यानुपरि व्युत्क्रमेण विन्यस्य
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy