________________
१४० नारायणभट्टीसहितवृत्तरत्नाकरे
अथ चलिका। ___ यदि दोहाच्छन्दसि प्रत्यर्धं लघुगुरुद्वयरूपाः पञ्चकला अधिका दीयन्ते, तथा दोहाच्छन्दसो मात्राः ४८ अधिकाश्च १०, एवं अष्टपञ्चाशन्मात्रा भवन्ति तदा चूलिका नामच्छन्दः। यथा
रात्रा लुद्ध समाज खल बहु कलहारिणि सेबक धुत्तउ । जोबण चाहसि सुक्ख जह परिहर घरजण बहुगुणजुत्तउ ॥ (राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवने वाञ्छसि सुखं यदि परिहर गृहजनं बहुगुणयुक्तमपि ॥)
इति चूलिका ॥
अथ सौराष्ट्रा । व्यत्यस्तार्धा दोहैव सौराष्ट्रा । यथा
सो माणि पुणमन्त जासु भत्त पण्डिअ तनश्र । जासु घरिणि गुणमन्ति सो वि पुहवि सगाहणिलन ॥ (स मान्यः पुण्यवान्यस्य भक्तः पण्डितस्तनयः। यस्य ग्राहणी गुणवती सोऽपि पृथिव्यां स्वर्गनिलयः ॥)
इति सौराष्ट्रा॥
अथ काहलिः। सगणभगणचतुर्लघवो गणा गुरश्चैको यत्र प्रतिपदं एकादशाक्षरश्चतुर्दशमात्रकश्च स काहलिः । यथा
उचउत्थाण बिमलघरा तरुणी घरिणी विणअपरा। बित्तकपूरलमुद्दघरा वरिसा समत्रा सुक्खकरा ॥ (उच्चोत्थानकं विमलं गृहं तरुणी गृहिणी विनयपरा । वित्तपूरितं मुद्रागृहं वर्षासमयः सुखकरः ॥)
इति काहलिः ॥
अथ मधुभारतम् । यत्र जगणान्तौ चतुर्मात्रौ (गणौ) प्रतिपादं तन्मधुभारतम् । यथा
जसु चन्द सीस पिन्धणन दीस ।
सो संभु पेउ महासुख देउ ॥ । (यस्य चन्द्रः शीर्षे परिधानं च दिशः। स शंभुः पातु महासुखं ददातु ॥)
इति मधुभारतम् ॥