SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। १३३ सो जोईजणमित्त हरेउ दुरित्त सङ्काहरु सङ्करचरणु॥ (येन वन्दिता शिरसि गङ्गा हतोऽनङ्गोऽर्धाङ्ग परिकरं धरति । स योगिजनमित्रं हरतु दुरितं शङ्काहरः शङ्करचरणः॥' इति घत्तानन्दः॥ अथ षट्पदप्रकरणम् । कान्यनाम्नश्छन्दसः पादचतुष्टयेनोल्लालनाम्नः पादद्वयेन च षट्पदं भवति । प्रथमं द्वे मात्रे, ततः पञ्च चतुर्मात्रा गणाः, ततो द्वे मात्र, इति चतुर्विशतिमात्राभिः काव्यपदचतुष्टयम् । तत्रैकादशसु त्रयोदशसु यतिः, उल्लालस्य पादे अष्टाविंशतिर्मात्राः, पञ्चदशसु प्रयोदशसु च यतिः। एवं पदव्यम् । एताद्वक षट्पदम् । यथा-- पिन्धउ दिढसरणाह बाहउप्पर पक्खर दह । बन्धुसमदि रण धसउ सामिहम्मोर बश्रण लइ । उड्ड णहपह भमउ खग्ग रिउसीस डालउ। पक्खर पक्खर ठेलि पेल्लि पम्वत्र उप्फालउ । हम्मीरकज जजल भणइ कोहाणल मुहमह जलउ। सुरताणसीस करवाल दइ तेजि कलेवर दिउ चलउ ॥ (परिधाय दृढसन्नाहं वाहोपरि पक्षरं दत्वा । बन्धूनां सम्मत्या रणं धर्षयामि स्वामिहम्मीरवचनं गृहीत्वा । उड्डयामि नभःपथं भ्रमामि खड्गं रिपुशिरसि पातयामि । पक्षरे पक्षरे ठेलयित्वा पेलयित्वा पर्वतमुत्फालयामि । हम्मीरकार्ये जजल्लो भणति क्रोधानलो मुखमध्ये ज्वलति । सुलतानशिरसिकरवालंदत्त्वा त्यक्त्वा कलेवरं दिवं चलति॥) प्रकारान्तरमपि षट्पदे भवति । प्रादौ षट्कलो गणः, ततश्चत्वारश्चतुःकलाः, ततोऽन्ते विकलः, एवंविधैश्चतुर्भिश्चरणः षण्णवतिमात्रा भवन्ति । तत उल्लालपदद्वयं पूर्ववदेव । उभयथापि द्विपश्चाशदधिकं शतं. मात्राणां षट्पदे भवति। अत्रोदाहरणम् जहा सरप्रससिबिम्ब जहा हरहारहंसा ठि। जहा फुल्लसिअकमल जहा सिरिखण्ड खण्डकिन ॥ जहा गङ्गकल्लोल जहा रोसाणि रुप्पह । जहा दुद्धवरसुद्धफेण फम्फाइतलुप्पह ॥ पिअपाप्रपसाअदिद्विपलुणिहुआ हसह जहा तरुणिजण । वरमन्ति चण्डेसर तह तुम कित्ति देक्खु हरिबम्भ भणा ॥ ( यथा शरच्छशिबिम्बं यथा हरहारहंसाः स्थिताः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy