________________
तृतीयोऽध्यायः ।
अथाऽतिशक़री ( १५ ) - द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ (१)
द्विगुाणता हयाः सप्त लघवो यत्र सा तथा । अथ तदनन्तरं गुरुगुर्वन्ताश्चतुर्दश लघवः शशिकलेत्यर्थः । इयमेव पैङ्गले ननननसैश्चन्द्रावर्ता नामोक्ता । श्रत्र सप्तभिरष्टभिश्च यतिरिति सम्प्रदायः ॥ ८४ ॥
स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ ( २ ) इयं शशिकलेव रसेषु षट्सु नवसु यतौ स्त्रगिति संशिता मालेत्यर्थः ॥ ८५ ॥ वसुहययतिरिह मणिगुणनिकरः ।। ८६ ।। (३)
अष्टसु सप्तसु च यतावियमेव शशिकला मणिगुणनिकरसंशितेति । यतिभेदेन संज्ञान्तरद्वयमुक्तम् ॥ ८६ ॥
ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८१ ॥ (४)
(१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम्
न. म.
न. नं.
115,
मलय - - जतिल - कसमु-दितश - शिकला 111, 114, FIT, TI, व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभसपरितरलम् ॥ ( प्रतिशक्वरीभेदेषु १६३८४ तमो भेदोऽयम् । )
(२) उदाहरणान्तरं यथा तत्रैव
अयि सहचरि ! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा
सुमुखि ! मुदितदनुजदलनहृदये ॥ (३) एतदुदाहरणान्तरमपि तत्रैव
६३
नरकरिपुरवतु निखिलसुरगति
रमितमहिमभरसंहजनिवसति ॥ श्रनवधिमणिगुणनिकरपरिचितः
सरिदधिपतिरिव धृततनुविभवः ॥ (४) उदाहरणान्तरं यथा महाकविक्षेमेन्द्रस्य